________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिचित्तं छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं दामं पिच्छइ नहंगणतलाओ ओवयंत ५॥ ३७॥ व्याख्या-"तओ पुणो" तत: चतुर्थस्वप्रदर्शनानन्तरं त्रिशला क्षत्रियाणी एवंविधं दाम-पुष्पमालां पश्यति । किंविशिष्टं (दाम मालां)? "सरसकुसुमेत्ति” सरसकुसुमं यत् मन्दारदाम तेन रमणीयभूत-रम्यं संजातम् ।। एतावता पारिजात १ मन्दार २ हरिचन्दन ३ सन्तानकादि ४ कल्पवृक्षभेदपुष्पमालाभिः शोभितम् । पुनः किंविशिष्टं दाम ? "चंपकासोगेत्ति" चंपक-अशोक-पुन्नाग-नाग-प्रियङ्गु-शिरीष-मोग्गरक-मल्लिका-जातियूथिका-कोल्ल-कोज-कोरकण्ट-पत्र-दमनक-नवमालिका-वासन्तिका-पम-उत्पल-पाटल-कुंद-अतिमुक्तकसहकाराणां सुरभिगन्धो वर्तते यस्मिन् तत् । पुनः किं कुर्वन् ? । अनुपमेन गन्धेन दश दिशोऽपि वासयन् । पुनः किंविशिष्टं दाम ? । “सच्चओयेत्ति” सर्वऋतुकं यत् सुरभिकुसुममाल्यं तेन धवलं च तत्, विलसत् कान्तम् यहुवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः । अनेन धवलवर्णस्य आधिक्यं लक्ष्यते। पुनः "षट्पदेत्ति" षट्पदमधुकरीभ्रमरा वर्णादिविशिष्टनमरजातयः तेषां गणः समुदायः गुमगुमायमानो मधुरं ध्वनन् निलीयमानः स्थानान्तरात् आगत्य तत्र लीयमानो, गुञ्जन-शब्दविशेषं कुर्वन् , देशभागेषु-तस्मिन् देशे यस्य, दानः गमकत्वात् एवमपि समासः । ततः पाश्चात्यविशेषणकर्मधारयेण सह षट्पदादिविशेषणस्य पुनः
-
For Private and Personal Use Only