________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आभरणानि सन्ति ॥ इति प्रथमो वलयः ॥ १ ॥ पुनः प्रथमवलयस्य परितो वलयाकारेण कमलानां द्वितीयो वलयो वर्तते । तत्र पूर्वदिशि श्रीदेव्याः चतस्रो महत्तरा देव्यो वर्तन्ते, तासां चत्वारि कमलानि सन्ति ( १ ), पुनः आग्नेयकूणे श्रीदेव्या अभ्यन्तरपर्षदि स्थातारो गुरुस्थानीया अष्टौ सहस्त्राणि देवा वर्तते । तेषां अष्टौ सहस्राणि कमलानि सन्ति (२) पुनः दक्षिणदिशि श्रीदेव्याः मध्यमपर्षदि स्थातारः दश सहस्रदेवा मित्रस्थानीया वर्तन्ते तेषां दशसहस्त्रकमलानि सन्ति (३), पुनः नैर्ऋतिकृणे श्रीदेव्याः द्वादशसहस्रप्रमाणाः किङ्करस्थानीया देवाः सन्ति तेषां द्वादशसहस्रकमलानि सन्ति ( ४ ), पुनः पश्चिमदिशि श्रीदेव्याः [ हस्ति-तुरंगम-रथपादाति-महिष- गान्धर्व नाट्यरूपाः ] सप्त अनीकाधिपतयः सन्ति ( ५ ), वायव्यकूणे १ उत्तरदिशि २ ईशानकूणे ३ च एतत्रयदिक्षु श्रीदेव्याः चतुः सहस्रप्रमाणाः सामानिका देवाः वर्तन्ते तेषां चतुःसहस्रकमलानि सन्ति ॥ एवं दिशां अष्टकेन द्वितीयो वलयः ॥ २ ॥ पुनः द्वितीयवलयस्य परितो वलयाकारेण तृतीयो बलयो वर्तते, तस्मिन् वलये श्रीदेव्याः षोडशसहस्रप्रमाणा : अङ्गरक्षका देवा वर्तन्ते तेषां षोडशसहस्रकमलानि सन्ति ॥ इति तृतीयवलयः ॥ ३ ॥ पुनः तस्मात् तृतीयवलयात् परितो वलयाकारेण चतुर्थी वलयो वर्तते, तस्मिन् आभ्यन्तरवलये श्रीदेव्याः ये द्वात्रिंशक्षा आभ्यन्तरा आभियोगिकदेवाः सन्ति तेषां द्वात्रिंशलक्षकमलानि सन्ति ॥ इति चतुर्थो वलयः ॥ ४ ॥ पुनः तस्मात् चतुर्थात् आभ्यन्तरवलयात् परितो वलयाकारेण पञ्चमो मध्यमबलयो वर्तते, तस्मिन् वलये ये श्रीदेव्याः चत्वारिंल्लिक्षा मध्यमा आभियोगिकदेवा वर्तन्ते,
For Private and Personal Use Only
(07-07-07-0XXX