________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०३
श्रीदेवीस्वप्न
पृथुला (विस्तृतः)। एकं १००० योजनसहस्रं च लम्ब, निर्मलजलेन संपूर्णः, तस्य पद्मद्रहस्य वज्ररत्नमयं तलं, वज्ररत्नमयं च पार्श्वद्वयं, तस्य पद्मद्रहस्य मध्ये एकं श्रीदेवीवासयोग्यं कमलं वर्नते । परं तत् कीदृशम् ? । एक योजनं पृथुलं, एक १ योजनं लम्ब, दश १. योजनानि पानीयमध्ये, क्रोशद्वयं २ पानीयस्य उपरि, त्रीणि ३ योजनानि सविशेषं तस्य परिधिः, वज्ररत्नमयं तस्य कमलस्य तलं, अरिष्टरत्नमयं तस्य मूलं, रक्तरत्नमयः तस्य कन्दः, वैडूर्यरत्नमयं तस्य नालं, रत्नवर्णमयानि(बहूनि) तस्य बाह्यपत्राणि । किंविशिष्टानि ? । किश्चिद्र रक्तजाम्बूनदनामसुवर्णमयानि लस्य मध्ये अभ्यन्तरपत्राणि तस्य कमलस्य मध्ये बीजकोशरूपा स्वर्णमयी एका कर्णिका वर्तते । सा कीदृशी? रत्नस्वर्णमयाः तस्याः केसराः, क्रोशद्वयं सा लम्बा, पृथुला च । एकं क्रोश यावत्, उच्चा पिण्डरूपेण कोशत्रयं सविशेष तस्याः परिधिः, तस्याः कर्णिकाया मध्यभागे श्रीदेवीयोग्यं एक गृहं वर्तते । तत् कीदृशम् । एक क्रोशं यावत् लम्ब, अर्धक्रोशं यावत् पृथुलम्, किञ्चिन्यूनक्रोशं यावत्-उच्चं, तस्य गृहस्य त्रीणि द्वाराणि-एकं द्वारं पूर्वदिशि १, द्वितीयं द्वारं दक्षिणदिशि२, तृतीयं द्वारं उत्तरदिशि ३, तानि द्वाराणि पञ्चधनाशतानि (५००) उच्चानि, सार्धद्विशतधषि (२०) पृथुलानि सन्ति, तस्य गृहस्य मध्ये सार्धद्विशतधनु:प्रमाणा (२५०) एका मणिमयी वेदिका वर्तते । तस्या वेदिकाया उपरि एका श्रीदेवतायोग्या शय्या वर्तते । अथ मौलं इदं कमलं यत् कथितं, तत् कमलं अष्टोत्तरशतकमलैः १०८ वलयाकारेण परिवेष्टितं वर्तते । एतानि अष्टोत्तरशतकमलानि मौलमुख्यकमलास् अर्घप्रमाणानि ज्ञेयानि, तेषु अष्टोत्तरशतकमलेषु श्रीदेव्या
X
॥ ५९॥
For Private and Personal Use Only