SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कमलाभ्यां मुक्तं =क्षरत्तोयं मकरन्दरसो यस्याः सा ताम् । अत्रापि कमलशब्दस्य प्राकृतत्वेन पूर्वनिपातः । पुनः | किंविशिष्टां श्रीदेवीम् ? । “लीलावायेत्ति०” लीलया, न पुनः स्वेदापनोदार्थम्, तस्याः खेदस्यैव अभावात् । वातार्थ = वातक्षेपार्थं कृतो यः पक्षकः = तालवृन्तं व्यञ्जनमित्यर्थः तेन उपलक्षिताम् । केचित् लीला = शोभा तदर्थं परैः सह स्पर्धया वादः तत्र कृतो विहितः पक्षः = प्रतिज्ञापरिग्रहो येन स तथा । क-प्रत्ययेनेति शोभागुण समुदयस्य विशेषणतया व्याचक्षते । तच्च दूरान्तरितत्वेन न प्रतीयते । पुनः किंविशिष्टां श्रीदेवीम् ? । “सुविसदेत्ति” सुविशदः स्पष्टः, न पुनर्जटाजूटवत् अविवृत्तः, कृष्णः = श्यामो घनोऽविरलः सूक्ष्मः तलिनो लम्बमानः केशहस्तः केशपाशो यस्याः सा ताम् । एतावता यस्याः श्रीदेव्याः केशपाशः स्पष्टः श्यामो लम्बमानश्च शोभते । पुनः किंविशिष्टां श्रीदेवीम् ? । " पउमेत्ति" पद्मद्रहमध्यवर्तिकमलवासिनीम् । पुनः किंविशिष्टां श्रीदेवीम् ? । "दिग्गजेति" दिग्गजैः उरुपीवरकरैः गरिष्टपुष्टशुण्डादण्डैः अभिषिच्यमानां भगवतीं पूज्यां, हिमवच्छैलशिखरे पूर्वकृतवर्णनां श्रीदेवीं त्रिशला क्षत्रियाणी पश्यति ॥ अथ श्रीदेवीस्वरूपं क्षेत्रखरूपं च क्षेत्रसमासादिषु प्रोक्तं लिख्यते ॥ तथाहि-अस्मिन् जम्बूद्वीपे भरतक्षेत्रे हिमवान् पर्वतोऽस्ति । शाश्वतः परं स कीदृक 21 स्वर्णमयः, एक सहस्रं द्विपञ्चाशत् योजनानि द्वादशं कला १०५२ यः पृथुलो वर्तते । पुनः यः शत १०० योजनानि उच्चोऽस्ति । तस्य हिमवत्पर्वतस्य उपरि एकः पद्मद्रहोऽस्ति स कीदृशः १ दश १० योजनानि उंडः, पञ्चशत ५०० योजना नि For Private and Personal Use Only XXXX CXXXCXCXXXX
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy