________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
*****XXGXOXOXXX
सा ताम् । एतावता यस्याः श्रीदेव्या रोमराजी जात्याञ्जन १ भ्रमर २ मेघघटावत् ३३यामा शिरीषादिपुष्पादिभ्योऽपि सुकुमारा निरन्तरा मनोहरा च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? । “नाभीमंडलेति' नाभीमण्डलेन सुन्दरं विशालं प्रशस्तं सुलक्षणत्वात् जघनं यस्याः सा ताम् । एतावता यस्याः श्रीदेव्या नाभीमण्डलेन जघनं अत्यन्तसुन्दरं प्रशस्तलक्षणसहितं च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? । "करयलमाइअत्ति" करतलेन (मुष्टिना) मेयं मानं वा, प्रशस्तत्रिवलीकं शोभनवलित्रययुक्तं मध्यं यस्याः सा ताम् । एतावता यस्याः कटिमध्यं करतलेन ग्राह्यं वलिनयशोभितं च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् । "नानामणित्ति" नानाप्रकाराणि यानि भूषणानि-आभरणानि वा इति योज्यम् । मणयः चन्द्रकान्ताद्याः, रत्नानि -वैडूर्यादीनि, कनकं पीतवर्ण तपनीयंरक्तवर्ण, तच जात्यत्वात् विमल-महच्छब्दाभ्यां विशेषितं तेषां यानि आभरणानि अंगपरिधेयानि, भूषणानि उपाहपरिधेयानि तैः विराजितानि यथाक्रम अङ्गानि-शिरःप्रभृतीनि, उपाङ्गानि अङ्गुल्यादीनि यस्याः सा ताम् । आगम आर्षत्वात् । एतावता नानाप्रकारैः चन्द्रकान्तादिमणीनां वैडूर्यादिरत्नानां पीतसुवर्णस्य रक्तसुवर्णस्य च यानि आभरणानि तैः शिरःप्रभृतीनि अङ्गानि, भूषणैश्च अङ्गुल्यादीनि उपाङ्गानि यस्याः, विराजमानानि सन्ति । पुनः किंविशिष्टां श्रीदेवीम् ? । "हारविरायंत्ति” हारेण विराजत् कुन्दमालया च परिणद्धं । “जलजलिंतत्ति" जाज्वल्यमानम् , “जलजलितत्ति" पाटे तु जलवत् भृशं दीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्याः सा ताम् । एतावता यस्याः श्रीदेव्याः स्तनयुगलं हारेण कुन्दजातीय
For Private and Personal Use Only