________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०३
॥ ५७ ॥
भाषणविशेषः आवलयश्च वर्तन्ते। पुनः तावता यस्याः श्रीका
अत्युनतान् अपि-निजरूपदर्पोद्धरान् अपि प्रीणयन्तीति अत्युन्नतमीणाः इति नखविशेषणमेव कार्यम् । श्रीदेवीएतावता यस्याः श्रीदेव्या नखा लाक्षारसरञ्जिता इव मध्योन्नता रक्ताः स्निग्धाश्च वर्तन्ते । पुनः किंविशिष्टांची श्रीदेवीम् ? । "कमलपलासत्ति” कमलस्य पलाशानिपत्राणि कमलपलाशानि तवत् सुकुमारं करचरणं यस्याः, वर्णनम् ४ सा चासौ कोमलवराङ्गुलिश्च ताम् । एतावता यस्याः श्रीदेव्याः कमलपत्रसदृशौ सुकुमारी करौ चरणों कोमलाः प्रधाना अङ्गुलयश्च वर्तन्ते । पुनः किंविशिष्टां श्रीदेवीम् ? । “कुरुविंदावत्तवहाणुपुत्वजंघ" कुरुविन्दावर्ते भूषणविशेषः आवर्त विशेषो वा, तद्वत् वृत्तौ वृत्तानुपूर्व जो यस्याः सा ताम् । एतावता यस्या जङ्घयोः कुरुविन्दावर्तमानो [नामा] आभरणविशेषो वर्तते आवर्तविशेषो वा चिह्नरूपो वर्तते । पुनः किंविशिष्ट श्रीदेवीम् । “निगढजाणूं" निगूढे जानुनी यस्याः सा ताम्। पुन: किंविशिष्टां श्रीदेवीम् ? | "गयवरत्ति" [गजेंद्रशुण्डा] हस्तिवरकरशुण्डा तत् सदशौ पीवरौ पुष्टौ ऊरू यस्याः सा तां, ऐरावणकरसहशपीवरोऊ इति स्पष्टम् । पुनः किंविशिष्टां श्रीदेवीम् ?।"चामीकररइअत्ति" चामीकरण सुवर्णेन रचिता मेखला चामीकररचितमेखला तया युक्तम्-सहितं कान्तं बिस्तीर्ण ओणिचक्रं यस्याः सा ताम् । एतावता यस्याः कटितटं स्वर्णमेस्वलया विराजमानं वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? । “सञ्चजणभमरेत्ति" जात्याञ्जन १ भ्रमर २ जलदप्रकर
५७॥ |३ इव वर्णन तत्समा ऋज्वी-सरला समा-अविषमा सहिता निरन्तरा तनुका सूक्ष्मा आदेया “सुकुमालमउअरमणिज्जरोमराई" मुकुमारेभ्योऽपि शिरीषपुष्पादिभ्योऽपि मृद्वी रमणीया-मनोज्ञा रोमराजी यस्याः
*
For Private and Personal Use Only