________________
Shri Mahavir Jain Aradhana Kendra
F0X-X----
www.kobatirth.org
वसन्तसोभंत सप्पभेणं सोभागुणसमुदपणं आणणकुटुंबिएणं कमलामलविसालरमणिजलोअणं कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकय पक्खएणं सुविसदकसिणघणसण्हलंबतकेसहृत्थं पउपमद्दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंत सेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणि ४ ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- "तओ पुणो” अथ सिंहदर्शनानन्तरं पुनः त्रिशला क्षत्रियाणी पूर्णचन्द्रवदना चन्द्रमुखी श्रीदेवीं स्वप्ने पश्यति । कविसमयः एवम्-'मानवा मौलितो वर्ण्या, देवाश्वरणतः पुनः ।' इति ततः श्रीदेवीवर्णनं चरणतः क्रियते । पुनः किंविशिष्टां श्रीदेवीम् ? । “उच्चागयठाणलट्टसंठिअं” उच्च आगतं प्राप्तम्, यद्वा उच्चो यो-अगः पर्वतो | हिमवान् तत्र जातः तम् उच्चागजं यत् स्थानं कमलं तत्र लष्टं यथा स्यात् एवं संस्थिताम् । किंविशिष्टां श्रीदेवीम् ? | "पसत्थरूवंत्ति" प्रशस्तरूपां अतिसुन्दररूपाम् । पुनः किंविशिष्टां श्रीदेवीम् ? | "सुपइट्टि अकणगेत्ति” | सुप्रतिष्ठौ समतल निवेशिती कनकमयकर्मेण उन्नतत्वात् सदृशं उपमानं ययोः तादृशौ चरणौ यस्याः सा लाम् । एतावता यस्याः श्रीदेव्याः चरणौ सुवर्णकच्छपवत् उन्नतौ वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? | "अच्चुन्नयपीणेति” अत्युन्नतं पीनं अङ्गुष्टाय तत्र रञ्जिता मृगरमणादन्यत्रापि मतेन न लोपो रञ्जिता इव लाक्षारसेन मांसला उन्नता मध्योन्नताः तनवः तलितास्ताम्रा अरुणाः लिग्धा अरुक्षा नखा यस्याः सा यद्वा
For Private and Personal Use Only
Xxxoxoxoxxxx?