________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
अत एव आवर्तमानं तद्वत् वृत्ते विमलतडित्सदृशे नयने यस्य तम् । अत्र आर्षत्वात् विशेषणविशेष्ययोः पूर्वापरनिपातनाया अनियमः । एतावता सिंहस्य नयने मूषागतवहितापितवर्णविद्युत्सदृशे पीते वर्तते । पुनः किंविशिष्टं सिंहम् ? । “विसालपीवरेवत्ति” विशालौ पीवरौ [करौ] वरौ ऊरू यस्य सः। पुनः परिपूर्णी अन्यूनो विमलः स्कन्धो यस्य सः, ततः पदद्वयस्य कर्मधारयः, तम् । पुनः किंविशिष्टं सिंहम् ? । “मिउविसयेत्ति" मृदूनि सुकुमाराणि विशदानि धवलानि सूक्ष्माणि-तनूनि लक्षणः प्रशस्तानि विस्तीर्णानि केसराणि स्कन्धरोमाणि तेषां आटोपः तेन उद्धततया शोभितः तम् । एतावता यस्य सिंहस्य स्कन्धे सुकुमारा धवला सूक्ष्मा विस्तीर्णा उद्धता केसरसटा वर्तते। पुनः किंविशिष्टं सिंहम् ? | "ऊसिअसुनिम्मिअत्ति" उच्छ्रितं उदग्रं सुनिर्मितं कुण्डलीकृतं सुजातं संपूर्ण आस्फोटितं आच्छोटितं लालंपुच्छं येन स तम् । एतावता येन सिंहेन उदग्रं कुण्डलीकृतं संपूर्ण पुच्छं आच्छोटितं वर्तते । पुनः किंविशिष्टं सिंहम् ? । “सोमं” सौम्यम् वा मनसा अक्रूरम् ।। पुनः सिंहं कीदृशम् ? । “सोमाकार" मनोहराकृतिम् । पुनः किंविशिष्टं सिंहम् ? । “लीलार्यत" मंथरगति नतु धावमानं । पुनः किंविशिष्टं सिंहम् ?। जंभायंतं जंभां कुर्वाणं (2)। पुनः किंविशिष्टं सिंहम् ?। "गाढतिक्खग्गनह" | गाढतीक्ष्णामाः नखाः यस्य स तम् । पुनः किंविशिष्टं सिंहम् ? । “वयणसिरीपल्लवेत्ति." वदनस्थ-मुखकुहरस्य
श्रिये-शोभार्थ पल्लव इव मृदुत्व-रक्ताभ्यां प्राप्ता-प्रसारिता चार्वा मनोहरा जिहा येन स तम् । नच ISI"निल्लालियग्गजीह" इत्यनेन पौनरुत्त्यं, विशेषणान्तरोपादानात् । कचित् “वयणसिरीपलंघपत्तचारुजीह"
For Private and Personal Use Only