SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org कल्पसूत्र कल्पलता व्या०३ सिंहस्खमवर्णनम् ३ ॥५५॥ सिंहं किंविशिष्टम् ? । हारनिकरेत्यादि-व्याख्या प्राग्वत् । तथापि अयं परमार्थ:-याइशो हारपुञ्जः १ यादृशः क्षीरसमुद्रः २ पुनः यादृशाः चन्द्रकिरणाः ३ याहशानि पानीयरजांसि-शीकरा याहशो वैतादयः५ तेषामिव | यःसिंहो धवलो वर्तते । पुनः किंविशिष्टं सिंहम् ? । “रमणिजपिच्छणिज" रमणीयं अत्यन्तसुन्दरं अत एव प्रेक्षणीयं द्रष्टुं योग्यम् । पुनः किविशिष्टं सिंहम् ? । “थिरलटेत्ति" स्थिरी-दृढौ लष्टौप्रधानौ प्रकोष्टौ लषीकान्तौ, अस्य प्रयोगे लषितौ वा कान्तो प्रकोष्ठौ कलाचिको यस्य स तम् । एतावता यस्य सिंहस्य कलाचिके दृढे प्रधाने कान्ते च वर्तेते । पुनः किंविशिष्टं सिंहम् । तथा वृत्ता वर्तुलाः पीवराःस्थूलाः मुश्लिष्टाः तीक्ष्णाः या दाहाः ताभिः विडम्वितं अलङ्कतं शोभितं मुखं यस्य स तम् । ततः कर्मधारयः । “बिडबित्ति" विवृतं इत्यन्ये । पुनः किंविशिष्टं सिंहम् । “परिकम्मिअत्ति" परिकर्मिती इव परिकर्मिती जात्या कमलकोमलौ। पुनः किंविशिष्टं। प्रमाणेन मात्रया शोभमानौ । “माइअसोभनत्ति” पाटे तु "माइअत्ति" मानोपेतो मायान्वितौ क्रूरत्वात् शोभमानौ लष्टी-प्रधानी ओष्ठौ यस्य म तम् । एतावता यस्य सिंहस्य ओष्ठी कमलबत् कोमलौ प्रमाणसहितौ शोभमानौ च वर्तते । पुनः किंविशिष्टं सिंहम् ? । “रनुप्पलेत्ति" रक्तोत्पलपत्रवत् मृ-मुकुमारं तालु च निालिताग्रा-निष्काशिताया जिह्वा च यस्य स तम् । तालुस्थाने कचित् "तलत्ति" दृश्यते, तत्र रक्तोत्पलपत्रवत् मृदु तलं यस्याः, एवंविधा निलोलितामा लपलपायमानाना जिह्वा यस्य इति व्याख्या । पुनः किंविशिष्टं सिंहम् ? | "भूसागयपवरेत्ति" मूषागतं मृन्मयभाजन विशेषस्थं यत् प्रबरकनकं तदपि तापितं अग्निना For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy