________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०३
शयनीयवर्णनम्
॥५१॥
पुनः मुक्तेन-क्षिप्तेन, एवंविधेन पुष्पपुञ्जलक्षणेन उपचारेण । कोर्थः ? । पूजया कलिते सहिते । पुनः किंविशिष्ट वासगृहे ? । कालागुरुपवरकुंदुरुक्कतुरुकडझतधूवमघमघंतगंधुद्धयाभिरामे" कालागुरु च कृष्णागुरू, प्रधानं कन्दुरुष्कं च चीडनामा गन्धद्रव्यविशेषः, तुरुष्कं च सेल्लकं धूपश्च दशांगादिः गंधद्रव्यसंयोगजः, ततो द्वन्द्वसमासे कृते तेषां संबन्धी यो मघमघायमानो अतिशयवान् गन्धः उद्धृतः उद्भूतः तेनाभिरामे | मनोहरे । पुनः किंविशिष्टे वासगृहे ? । “सुगंधवरगंधिए” सुठु गन्धवराणां प्रधानवासानां गन्धो यस्मिन X तत् सुगन्धवरगन्धिकं तस्मिन् । कचित् "सुगंधवरगंधगंधिए" इति पाठः । तत्र सुगंधाः सुरभयो ये वरगन्धाः | प्रधानचूर्णाः तेषां गन्धो यत्रास्ति ( तत् सुगंधवरगंधगंधिकम् ) तस्मिन् । पुनः किंविशिष्टे वासगृहे ? । | "गंधवहिभूए" गन्धवर्तिः गन्धद्रव्यगुटिका कस्तूरिका वा तद्गुटिका गन्धवर्तिः तद्भूते सौरभ्यातिशयात् * गन्धद्रव्यगुटिकाकल्पे इत्यर्थः । इत्यनेन वासगृहं वर्णितम् ॥ अथ तस्मिन् वासगृहे यस्मिन् शयनीये त्रिशला सुप्ता अभूत् , तस्य शयनीयस्य वर्णनमाहतंसि तारिसगंसि सयणिजंसि सालिंगणवहिए उभओ बिब्बोअणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुअउद्दालसालिसए ओअविअखोमिअदुगुल्लपट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीअतूलतुल्लफासे सुगंधवरकुसुमचुन्नसयणोवयारक
५१॥
For Private and Personal Use Only