________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षत्रियाण्याः कुक्षौ गर्भत्वेन संहृतः, तस्यां रात्री सा त्रिशला कीदृशे वासगृहे सुप्ता अभूत् ? तस्य वासगृहस्य वर्णनं क्रियते "तसि" तस्मिन् वासगृहे । किंविशिष्टे वासगृहे ? । “तारिसे" ताशके वक्तं अशक्यस्वरूपे तत्स्वरूपं श्रीभद्रबाहुखामी कथयति न कोऽपि वर्णयितुं समर्थों भवति, एतादृशे पुण्यवतां योग्ये इत्यर्थः। पुनः किंविशिष्टे वासगृहे ? । “अभितरओ सचित्तकम्मेत्ति" अभ्यंतरे अभ्यंतरतो भित्तिभागे भित्तेः मध्यभागे सचित्रकर्मणि चित्रकर्मसंयुक्ते।पुनः किंविशिष्टे वासगृहे ?। “बाहिरओ दूभिअवहम?" बाह्यतो भित्तिः बहिर्भागे "दमि धवलितम । पुनः किंविशिष्टे वासगृहे ? । घृष्टम् कोमलपाषाणादिना अत एव मृष्टम्ममृणं यत् तथा तस्मिन् । पुनः किंविशिष्ट वासगृहे ? । "विचित्तउल्लोअचित्तिअतले” विचित्रं आश्चर्यक्रत, उल्लोचस्यचन्द्रोदयस्य, चित्रितं विविधचित्रविच्छित्तिसंयुक्तम् तलंअधोभागो यस्मिन् एतावता उपरि चन्द्रोदयो बद्धोऽस्ति, तस्य तलं नानाप्रकारचित्रसहितं वर्तते । “विचित्तउल्लोअचिल्लिय" इति पाठे तु अयमर्थःविचित्रो विविधचित्रयुक्त उल्लोकः उपरिभागः “चिल्लिअं” दीप्यमानं तलं-अधोभागो यत्र । ततो विशेषणकर्मधारयः। पुनः किंविशिष्टे वासगृहे । “मणि" मणिरत्नैः प्रणाशितं दूरे गमितान्धकारं यत्र तत् तस्मिन् । पुनः किंविशिष्टे वासगृहे ? । “बहुसमसुविभत्तभूमिभागे" बहु अत्यर्थ, समान निम्नो-नीचो नापि उन्नतः उच्चः पञ्चवर्णमणिकुटिमकलितः । सुविभक्तकृतखस्तिको भूमिभागो यत्र तत्तस्मिन् । पुन: किंविशिष्ट वासगृहे ? "पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए" पञ्चवर्णन पुनः सरसेन, पुनः सुरभिणा,
For Private and Personal Use Only