________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तदा लोकैः वृद्धभावकाः पृष्टा:-'भो! धर्ममार्ग कथयत ।' तैः निजज्ञानानुसारेण खखादार्थ च प्रोक्तम्-'भो! वृद्धश्रावकाणां धनं देयं, वसतिः देया, भव्य भोजनं देयम् , कन्या देया, तेषां पूजा कर्तव्या। ततः तेषां पूजा: जाता । अत्र असंयतानां सतां साधुबुज्या पूजा जाता ॥ इदं दशमं आश्चर्यम् ॥ १०॥
["दस वि अगंतेण कालेण" त्ति अत एवाह-दशापि एतानि (आश्चर्याणि) अनन्तेन कालेन अनन्तकालात् Sसंवृत्तानि अस्यामवसर्पिण्यामिति, ॥] उक्तं च___ "दसम वि वासे(ए)सेवं, दस दस अच्छेरयाइं जायाई। उस्सप्पिणिए एवं तित्थुग्गाली य भणियाई" ॥१॥
ननु एतानि दश आश्चर्याणि कस्य तीर्थङ्करस्य वारके जातानि? इत्याहएक शतं अष्टाधिकं (१०८) सिद्धम् ऋषभदेवतीर्थ ॥१॥ असंयति-पूजा सुविधिनाथतीर्थे ॥२॥ हरिहरिणीयुगलिकनरकगमनं शीतलनाथतीर्थे ॥ ३॥ स्त्रीतीर्थङ्करः मल्लिनाथतीर्थे ॥ ४ ॥ शङ्खयोः [परस्परं] शब्दश्रवणं नेमिनाथतीथें ॥५॥ शेषाणि (उपसर्गः १ गर्भहरणम् २ चंद्रसूर्यखविमानावतरणं ३ चमरोत्यातः ४ निष्फलदेशना ५) पञ्च श्रीमहावीरसम्बन्धीनि ॥१० ।। उक्तं च"रिसहे अट्टहिय सय-सिद्धे सीयलजिणम्मि हरिवंसो। नेमिजिणे अमरकंका-गमणं कण्हस्स संपन्नं ॥१॥ इत्थीतित्थं मल्ली, पूआ अस्संजयाण नवमजिणे । अवसेसा अच्छेरा, वीरजिणिदस्स तिथम्मि" ॥२॥
-> आश्चर्य दशकमिति ॥
BF.XXXXXX*****
कल्प०८
For Private and Personal Use Only