________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं कल्पलता व्या०२
आबयाणि
॥४२॥
अपि स्वामिपादाभ्यां चतुरङ्गलैर्दूरतो भ्रमन् 'मा तीर्थङ्करस्य आशातना भवतु' इति शीघ्रं पश्चादागत्य इन्द्रेण अप्राप्त सत् गृहीतं, स्वामिनं वन्दयित्वा क्षमयित्वा च चमरं प्रति इन्द्रः प्राह-रे चमर ! मुक्तोऽसि भगवत्प्रसादात्, त्वं निस्सर, साधर्मिकत्वात् न किमपि वक्तव्यम्, परमेवं पुनः न कार्यम् । ततः शक्रः प्रभुं नत्वा स्वस्थानं गतः । ततः चमरेन्द्रोऽपि पादद्वयात् निःसृत्य प्रभुं प्रणम्य खस्थानं गतः। अत्र चमरेन्द्रस्य सौधर्म-* देवलोके गमनम् ॥ इति आश्चर्य अष्टमम् ॥८॥ __अथ "अट्ठसयसिद्धात्ति" अष्टापदपर्वते एकसमये उत्कृष्टावगाहनायां (५००)पञ्चशतधनु-प्रमाणायां एकः श्रीऋषभदेवः (१) भरतं विना नवनवतिः (९९) भगवतः पुत्रा अष्टौ (८) च भरतस्य पुत्राः, एवं एकं शतं
अष्टौ च (१०८) सिद्धाः । अत्र उत्कृष्टावगाहनायां १०८ सिद्धाः ॥ उक्तं च| "रिसहो रिसहस्स सुया, भरहेण विवलिया नवनवई । अद्वेव भरहस्स मुथा, सिद्धिगया एगसमयम्मि"||१|| इति नवमं आश्चर्यम् ॥९॥
अथ "असंजयाणपूयात्ति" ॥ श्रीसुविधिनिर्वाणात् कियति काले गते साधुधर्मस्य विच्छेदो जातः ।। १. वृषभो १ वृषभस्य सुता भरतेन विवर्जिताः ५९ नवनवतिः । अष्टौ ८ भरतस्य सुताः (१०८) शिवं गता एकसमयेन ॥ १॥
२. "अस्संजतेसु पूआ" असंयता:-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा सत्कारः, सर्वदा हि किल संयता *एव पूजाही:, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, (श्रीस्थानाङ्गसू० पृ० ५२४)
॥४२॥
For Private and Personal Use Only