________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वामिन् । अयं पूर्वोपार्जितपुण्यैः अत्रावतीर्णः, अस्य च इयं एब स्थितिः, न कोपः कर्तव्यः। एतत् श्रुत्वा । विशेषतः क्रुद्धः प्राह-रेरे। ये सौधर्मेन्द्रपादौ स्वमस्तकोपरि सहन्ति ते चमरका अन्ये, अहं चमरेन्द्रः अन्यः, अहं तत्र गत्वा सौधर्मेन्द्रपादौ गृहीत्वा अधः पातयिष्यामि।' इति कथयित्वा कोपं कृत्वा प्रधानः वारितोऽपि स्वस्थानत उस्थाय चलिता, अग्रे गत्वा विचारितम्-'अर्हन्तो वा १ अर्हचैत्यस्य वा २ अनगारस्य वा भावितात्मनः ३ शरणं विना न गम्यते । तदवसरे छास्था श्रीमहावीरः सुसमारपुरात् बहिः कायोत्सर्गे स्थितोऽभूत्। तस्य शरणं कृत्वा, लक्षयोजनरूपं कृत्वा पादाभ्यां धरित्री आनन् , हस्ताभ्यां तालास्फोटं कुर्वन् , मेघवत् गर्जारवं कुर्वन् , बिद्युदिव झात्कारं कुर्वन् , ज्योतिश्चक्रं त्रासयन् , एक पादं सौधर्मावतंसकविमानवेदिकायां, द्वितीयं पादं सुधर्मसभायां दत्त्वा, प्रतोल्यां प्रहारं दरवा, शक्रं आक्रोशयामास । देवा भयनान्ता जाताः, देवाङ्गना भीत्या देवानां कण्ठे लगा। कोलाहलं श्रुत्वा इन्द्रो विस्मयं प्राप्तः पृष्टवान्-'भो देवाः कोऽयं उपद्रवः ।" देवः प्रोक्तम्-खामिन् ! कोऽपि लक्षयोजनरूपधारी महावीभत्सो महाविकरालः समुत्थितः अस्ति ।' इन्द्रेण अवधिना ज्ञातम्-'अयं चमरकः असम्पूर्णभृतघरवत् समुच्छलितोऽस्ति । परं अस्य शिक्षा ददामि तदा वरम् ।
ततो ज्वलदग्निस्फुलिङ्गसहस्रसमाकुलं वजं चमरेन्द्र प्रति मुमोच । चमरोऽपि वज्रं आगच्छत् दृष्ट्वा भीत्या Xअधोमुखः ऊर्ध्वपादो महाकायं सङ्कोचयन् कुण्डलहारादीनि आभरणानि पतन्त्यपि अगृह्णन् , कुन्थुकरूपं *
कृत्वा, हे श्रीमहावीर ! तब मम शरणम् तव मम शरणम्' इति कथयन् स्वामिपादयोः अन्तरे प्रविष्टः । वजं
।
For Private and Personal Use Only