________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र यित्वा देवो गतः। लोकैः अपि तथैव कृतम् । अथ हरिनामा राजा पृथिवीं साधयित्वा, महारम्भ कृत्या, कल्पलता भार्यासहितो मरकं गतः । तस्मात् हरि-हरिणीयुगलात् जातो हरिवंशः । अत्र हरि-हरिणीयुगलं नरके गतम् ॥
आश्चर्याणि व्या०२ इदं आश्चर्य सप्तमम् ।। ७॥
अथ-"चमरुप्पाओत्ति" चमरोल्पातखरूपं च इदम् । तत् यथा-विभेलसंनिवेसे पूरणो नाम गाथापतिः ॥४१॥
*महासमृद्धः रात्रौ सुप्तेन चिन्तितम्-'मया पूर्वभवेषु पुर्य प्रभूतं कृतम् , तेन इह ऋद्धिः प्राप्ता, तेन पुनरपि हा
अत्र तपः करोमि, तदा आगामिभवेऽपि किञ्चित् सुखं प्रामोमि' इति विचिन्त्य, प्रभाते कुटुम्ब आकार्य, स्वपुत्रं खपदे स्थापयित्वा, तापसी दीक्षा गृहीता यावजीवं षष्टषष्ठतपः कृतवान् । पारणकदिने काष्ठमयं चतुःपुटं भाजनं कृत्वा, भिक्षायां भ्रमति । तत्र प्रथमपुटे पतितां मिक्षां पान्थेभ्यो ददाति १, द्वितीयपुटे पतितां भिक्षां काकादिभ्यो ददाति २, तृतीयपुटे पतितां भिक्षां जलचरादिभ्यो ददाति ३, चतुर्थपुटे पतितां भिक्षा स्वयं भुते ४। एवं द्वादशवर्षाणि अज्ञाततपः कृत्वा, पूरणः शुभध्यानेन मृत्वा, भवनपतिप्रथमनिकाये चमरेन्द्र एकसागरोपमायुः महर्द्धिको जातः। एकदा चमरेन्द्रः खसभायां चतुःषष्टिसहस्रसामान्यदेवसहितः एकस्यां एकस्यां दिशि चतुःषष्टिचतुःषष्टिसहस्रः आत्मरक्षकैः परिवृतः उपविष्टोऽस्ति । अब-x॥४१॥ धिज्ञानेन सौधर्मदेवलोके शक्रसिंहासने स्थितं सौधर्मेन्द्रं पश्यति स्म। तस्य च पादौ स्वमस्तकोपरि आगतो, ततः क्रुद्धः सन् वदति स्म-'अरे रे! कोऽयं दुरात्मा मम मस्तके पादौ धत्ते ?। सेवकप्रधानसुरैः प्रोक्तम्
For Private and Personal Use Only