________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समये गजारूढः सन् उद्याने क्रीडार्थ गतः। तत्र एको वीरनामा कुविन्दः तस्य भार्या अतिसुरूपा अतिमुलावण्या वनमालानानी, राज्ञा दृष्टा। द्वयोरपि कामरागः उत्पन्नः। राजा तां पश्यन् स्थितः अग्रे न चलति । मन्त्रिणा प्रोक्तम्-'किमिति विलम्बः क्रियते।' राज्ञा खस्याऽभिप्रायो निवेदितः। मन्त्रिणा प्रोक्तम्'चिन्ता न कार्या, तां मेलयिष्यामि।' सर्वेऽपि स्वस्थानं गताः । मत्रिणा परिवाजिकाप्रयोगेण सा वनमाला राज्ञो मेलिता, राज्ञा अन्तःपुरे क्षिप्ता, तया सह सुखेन राजा कालं गमयति । अथ कुविन्दो अतिलेहात् |भायोवियुक्तो प्रथिलो जातो, नगरमध्ये त्रिके चतुष्के चस्वरे च हा वनमाले! हा वनमाले ! इति विलपन् गवाक्षस्थाभ्यां ताभ्यां दृष्टः, चिन्तितं च-'अहह ! अस्माभिः उभयलोकविरुद्धं कृतम्। इति पश्चात्तापं कुचेंतोः, तयोरुपरि विद्युत् पतिता, बावपि मृत्वा शुभध्यानेन हरिवर्षक्षेत्रे हरिहरिणीनामानी युगलिनी जाती। वीरकुविन्दोऽपि तयोर्मृत्युं ज्ञात्वा दुःखात अज्ञानकष्टतपः कृत्वा, सौधर्मदेवलोके किल्बिषिको देवो जातः । अवधिज्ञानेन ज्ञातं "मा एतौ मम वैरिणी गलित्वात् वर्ग यास्यता" इति विचार्य तो हरिहरिणीयुगलिनी 'प्रवचनसारोद्धारवचनात् देहेन आयुषा च हृस्वीकृत्य कल्पवृक्षः समं उत्पाट्य, चम्पानगयों आनीती । तस्मिन् प्रस्तावे चम्पानगरीस्वामी इक्ष्वाकुवंशीयश्चन्द्रकीर्तिः राजा अपुत्रो मृतः। नगरलोका अपरं राजानं विलोकयन्ति, परं न तादृशो मिलति । तदाऽऽकाशे देवेन प्रोक्तम्-'भो लोकाः ! युष्माकं अयं हरिः राजा, इयं च हरिणी राज्ञी अस्तु, परं एतयोः कल्पवृक्षकलेन मिश्रो मांसाहारो यावजीवं देयः।' इति कथ
AST तस्मिन् प्रस्तावे चम्पानमा मिलति । तदाऽऽकाशे
मांसाहारो यावजीव दया
For Private and Personal Use Only