________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०२
॥४
॥
XXXXXXXXXXXX
कुन्ती देशनिष्कासनस्वरूपं श्रुत्वा, पाण्डुराजप्रेरिता पुनः कृष्णसमीपे गत्वा, मृष्टवचनैः कृष्णं सन्तोष्य, नव्यपाण्डुमथुरावासस्य आज्ञा लात्वा समागता। ततः पश्चापि पाण्डवाः सपरिवारा दक्षिणवेलातटे पाण्डुमथुरा नवीनां स्थापयित्वा, अदृष्टसेवकाः सन्तो वसन्ति स्म । ततो गते कियति काले स्थविरसमीपे धर्म श्रुत्वा, संसारभयात् उद्विग्नाः । पण्डुसेनपुत्रं राज्ये संस्थाप्य, द्रौपद्या सह प्रबजिताः । षष्ठाष्टमादिनपांसि कृत्वा चतुदेशपूर्वाणि अधीत्य, स्थविराज्ञया श्रीनेमिनाथवन्दनाथ गिरिनाराय चलिताः, विहरन्तो हस्तिकल्पनगरे आगत्य युधिष्ठिरं वने मुक्तवा, चत्वारः पाण्डवा मासक्षपणपारणे नगरमध्ये आहारार्थ गताः । उच्चनीचकुलानि अदन्तो लोकमुखात् श्रीनेमिनिर्वाणं श्रुत्वा युधिष्टिरस्य कथयित्वा, विमनस्काः सन्तः आहारं परिष्ठाप्य, शत्रुञ्जयोपरि द्विमासिकी संलेखनां कृत्वा, पञ्चापि पाण्डवाः सिद्धाः। द्रौपदी अपि एकादशाङ्गानि पठित्वा, मासिकी संलेखनां कृत्वा पञ्चमब्रह्मदेवलोके उत्पन्ना । ततः च्युत्वा, महाविदेहे क्षेत्र सेत्स्यति, अत्र द्रौपदी वालिता इत्येतावता सम्बन्धेन प्रयोजनम् । अग्रेतनसम्बन्धस्तु प्रसङ्गात् लिखितोऽस्ति । वेला खेच्छा च भवेत् तदा वाच्या, नो चेत् न हि । अत्र उभयोः वासुदेवयोः [परस्परयोः) शङ्खध्वनिश्रवणं ॥ इति पञ्चमं आश्चर्यम् ॥५॥ ___ अथ-"अवयरणं चंदसूराणंत्ति"। पुनः कोशाम्भ्यां नगर्या चन्द्रसूर्यो स्वविमानेन पश्चिमपौरुष्यां श्रीमहावीरवन्दनार्थं आगती, अन्न खकीयमूलविमानेन आगमनं ।। इति षष्ठं आश्चर्यम् ॥ ६॥
अथ-"हरिवंसकुलुप्पत्तित्ति" तत्सम्बन्धलेशो यथा-कौशाम्बीनगरी तत्र सुमुखो नाम राजा, वसन्त
॥४०॥
For Private and Personal Use Only