________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणमति।" ततो कपिलवासुदेवो हर्ष प्राप्य पश्चात् वलित्या पद्मनाभं देशात् निष्कासितवान्, तत्सुतं तस्य पट्टे स्थापितवान् । ततः कृष्णोऽपि पाण्डवैः समं समुद्रमुल्लङ्य, पञ्चपाण्डवानामेवं कथयति स्म-'यूयं गङ्गामहानदी नावा उत्सरत । पश्चान्नीः बलमाना मम मोच्या । यथा अहं आगच्छामि, साम्प्रतं अहं सुस्थितं देवं सम्भाषयामि । ततः पञ्चापि पाण्डवाः गङ्गामुत्तीर्णाः, परं मनसि विचारितम्-'कृष्णो पाहुभ्यां गङ्गां तरितुं समर्थो न वा ?।' ततो बलमाना नौः कृष्णाय न मुक्ता । ततः कृष्णो नावं गवेषयन् क्षणं स्थितः, नौः नागता, एकया बाह्वा तुरङ्गमसारथिसहितं रथं गृहीत्वा, एकया च बाह्वा सार्धद्वाषष्टि ६२॥ योजनविस्तीर्णा गङ्गां विलोडयन् पातालमध्ये हस्तं निक्षिपन् , उत्प्रेक्षते-'मा पाण्डवाः घुडित्वा अधस्ताद्गताः भवन्तु, ततो निष्कासयामि' इति उत्तरन प्रान्तः। ततो गङ्गादेव्या साहाय्यं दत्तम्, ततो गगां उत्तीर्य आगतेन कृष्णेन पश्चापि पाण्डवा उपालम्भिताः-'किमिति नौः न मुक्ता।' ततः पाण्डवैः प्रोक्तम्-'युष्मच्छक्तिपरीक्षाविलोकनार्थम् ।' ततो हरिः कोपं कृत्वा प्राह-रेरे! यदा मया द्विलक्षयोजनप्रमाणो लवणसमुद्र उल्लजिता, पुन: पद्मनाभं जित्वा द्रौपदी आनीता, तदा मम शक्तिर्न दृष्टा । इति कथयित्वा कोपात् लोहदण्डेन पश्चापि पाण्डवान चूर्णयामि, पुनः कृपया विचारितम्-'नैतत् युक्तम्। ततः पञ्चापि पाण्डवानां रथान् भत्तवा चूर्णिताः। पश्चापि पाण्डवांश्च देशात् निर्विषयान् आदिशति स्म, स्थभञ्जनस्थाने "रथमर्दननामा” कोहो जातः। ततः कृष्णः खसैन्यं लात्वा द्वारिकां प्रविष्टः । पाण्डवा अपि द्रौपदीं लात्वा, सैन्यसाहिता हस्तिनागपुरं प्राप्ताः।
For Private and Personal Use Only