________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
आश्चर्याणि
कल्पसूत्रं
लग्नः। प्रथमं पाञ्चजन्यशङ्खनादेन पद्मनाभसैन्यस्य त्रिविभागो नाशितः। ततः शार्ङ्गधनुष्टङ्काररवेण द्वितीयकल्पलता
व त्रिविभागो हतः । ततः पद्मनाभोऽवशिष्टयलत्रिभागो जीवं लात्वा नष्ठा, अमरकानगरीमध्ये प्रविष्टः। व्या०२
ततः कृष्णो नरसिंहरूपं कृत्वा, वप्रादिकं पातयित्वा नगरमध्ये प्रविष्टः, पद्मनाभो मरणभीत्या-“हे द्रौपदि।।
शरणे ! मां रक्ष रक्ष” इति कथयन् स्त्रीरूपं कृत्वा, द्रौपदीशरणे प्रविष्टः । कृष्णेन द्रौपदी पृष्टा-"तव पृष्ठे का ॥३९॥ एषा स्त्री?" ततः पद्मनाभो हस्ते प्राभृतं कृत्वा कथयति स्म-"अहं पद्मनाभः तब मारणभीत्या द्रौपदीश
रणं प्रविष्टोऽस्मि ।" ततः कृष्णेन"शरणागतो न हन्यते” इति कृपया जीवन्मुक्तः। ततः कृष्णो द्रौपदी अखण्डशीला लात्वा, पञ्चपाण्डवैः सह प्रत्यागच्छन् , लब्धजयत्वात् हर्षेण शङ्ख पूरितवान् । तस्मिन्नवसरे तत्र क्षेत्रे चम्पायां श्रीमुनिसुव्रतखामितीर्थङ्करसमीपे व्याख्यानं शृण्वन् कपिलवासुदेवः शङ्खनादं अशृणोत् । ततः शङ्का जाता-"किं द्वितीयो वासुदेवो जातः?" तदा भगवता प्रोक्तम्-'भो कपिलवासुदेव ! एकस्मिन् क्षेत्रे तीर्थङ्कराश्चक्रवर्तिनो वासुदेवा बलदेवा वा नोत्पाद्यन्ते, परं जम्बूद्वीपसम्बन्धिभरतक्षेत्रस्य वासुदेवः कृष्णनामा स्वत्सदृशो द्रौपदीं पद्मनाभेन अत्र आनीतां तां लात्वा याति । तेन शङ्कः पूरितः। ततः कपिलधासुदेवः शीघ्र उत्थाय'मत्सदृशं पुरुषोत्तमं पश्यामि' इति हर्षेण मिलनार्थ समुद्रतटे गतः, तावता कृष्णो दूरे गतः। परं कृष्णादिरथानां पीतश्वेतादिध्वजाचिह्नानि दृष्टा शङ्ख पूरितवान् । तन्मध्ये ज्ञापितम्-"अहो श्रीकृष्णवासुदेव! कपिलवासुदेवः त्वां प्रणमति ।” कृष्णोऽपि तन्नादं श्रुत्वा, शङ्खनादं कृतवान्-"अहो कपिलवासुदेव ! कृष्णोऽपि त्वां
॥३९॥
For Private and Personal Use Only