________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
प्रयासं कुरू, पद्मनाभस्यापि पूर्वसंगतिकदेवेन द्रौपदी आनीय दत्ताऽस्ति न स्वयं, ततो यदि कथयसि तदा द्रौपदी, ततो लात्वा हस्तिनागपुरे मुञ्चामि, अथवा पद्मनाभं पुरवाहनबलसमेतं समुद्र क्षिपामि । ततो हरिः वलगर्वितः प्राह-नैवं मम शोभा, त्वं मम मार्ग वितर। ततो देवेन देवमायया मार्गों दत्तः। श्रीकृष्णः सर्वसैन्यं समुद्रस्य वेलाकूले मुत्तवा, पञ्चपाण्डवैः समं समुद्रं रथैः उल्लत्य, अमरकट्टायां उद्याने गतः, स्थित्वा च तत्र दारुकनामा सारथिर्मुक्तः। प्रोक्तं च-'भो दारुक ! त्वया तत्र गत्वा पादेन पद्मनाभस्य पादपीठं आक्रम्य, कुन्ताग्रेण लेख अग्रे मुक्तवा त्रिवलि ललाटे चाटयित्वा, कोपं कृत्वा, इत्थं वाच्यम्-"रे पद्मनाभाख्य! रे अकाले मरणवाग्छक! रे दुरन्तप्रान्तलक्षण! रे हीनचतुर्दशीजात ! रे श्री-ही-धृति-कीनिवर्जित । अव त्वं न भवसि, यतो मम भगिनी द्रौपदी त्वया हता, अय शीधं द्रौपदीं देहि, नो चेत् सङ्ग्रामे सज्जो भव ।” ततः पद्मनाभोऽपि कृष्णस्य दूतस्य कुवचनं श्रुत्वा, कोपं कृत्वा, "अवध्यो दूतः" इति हेतोः दूतं, अहतं, असत्कारितं, अपमानितं, अपद्वारेण निष्कास्य, स्वयं हस्तिस्कन्धं समारुख, सर्वसैन्यं लात्वा,* सन्मुखमागत्य स्थितः। ततः कृष्णः पश्चपाण्डवान् प्राह-'भो पाण्डवाः! यूयं किं युद्धं करिष्यथ? किंवा द्रक्ष्यथ ? ।' ततः ते प्रोचुः-'वयं युद्ध करिष्यामः, पश्चात् यदि वयं पद्मनाभात् हारयाम, तदा भवद्भिः युद्धं करणीयं' इति । अमङ्गलवचनं मुखे निःमृतम्, तथापि पाण्डवाः पद्मनाभेन समं युद्ध कर्तु लग्नाः। परं पद्मनाभेन बलवता पश्चापि पाण्डवा हतग्रहताः कृताः सन्तः कृष्णसमीपे समेताः। ततः कृष्णो युद्धं कर्तु
For Private and Personal Use Only