________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
कल्पसूत्र
क
आश्चर्याणि
कल्पलता व्या०२
॥३८॥
पाण्डवैः पञ्चभिरपि एका भार्या न रक्षिता ? । अहं तु षोडशसहस्रगोपाङ्गनाः कथं रक्षामि।' कुन्त्या कथितम्-"साम्प्रतं हास्यवेला नास्ति ।” ततः कृष्णेन प्रोक्तम्-'अर्धभरतमध्ये पाताले वा यत्र कुत्रापि द्रौपदी भविष्यति, तत्र शुद्धिं कारयित्वा तुभ्यं दास्यामि, न चिन्ता कार्या।' इति सत्कारसन्मानादिना सन्तोष्य, कुन्ती हस्तिनागपुरे प्रापिता । ततः कृष्णः कौटुम्बिकैः सर्वत्र उद्घोषणां दत्तवान्, परं न कुत्राऽपि शुद्धिः प्राप्ता । ततः तस्मिन् प्रस्तावे किंकर्तव्यतामूढा यादवसभा जाता। ततः नारदः समागतः। कृष्णेन पृष्टम्"अहो नारद ! भवद्भिः सर्वत्र भ्रमद्भिः कुत्रापि द्रौपदी [सदृशा] दृष्टा श्रुता वा स्यात् । तदा कथ्यताम् ।” ततो नारदेन प्रोक्तम्-"अन्यदा धातकीखण्डे दक्षिणभरतार्धे अमरकायां नगर्या पद्मनाभभवने मया द्रौपदीसदृशा दृष्टा।" ततः कृष्णेन प्रोक्तम्-"भवतां एवं इदं कर्म!" ततः कृष्णेन पण्डनृपाय दूतो मुक्तः, प्रोक्तं च-"तत्र द्रौपदीशुद्धिः जाताऽस्ति, भवद्भिः पञ्चपाण्डवैश्चतुरङ्गिनी सेनां लात्वा, पूर्वसमुद्रवेलातटे समागन्तव्यम् । ततो दूतो गत्वा तथैव कारितवान् । ततः कृष्णवासुदेवोऽपि प्रयाणभेरी वादयित्वा, समुद्रविजयादिदशदशार्दादिपरिवारसहितो वासुदेवर्द्धि विच्छिक्या हस्तिस्कन्धाधिरूढो धृतमस्तकच्छत्रः चामरैः वीज्यमानः पूर्वसमुद्रवेलाकूले सङ्केतस्थाने पाण्डवैः सह संमिलितः। ततः कृष्णेन पौषधशालायां अष्टमं कृत्वा | सुस्थितनामा लवणाधिपतिर्देव आराधितः सोऽप्यागतः। कृष्णेन मोक्तम्-'भो सुस्थित ! द्रौपद्यानयनाथे अहं यामि, पञ्चानां पाण्डवानां षष्ठस्य मम एवं षण्णां रथानां मार्ग देहि ।' ततः सुस्थितो देवः प्राह, मा
For Private and Personal Use Only