________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मै प्रोक्त
दीपदी उत्पाद
प्रियमातुः
मम शुद्धिं न करोति,
विचारितम्-चल
दोपदी च षष्ठषष्ठपारण
पार्चे न पश्यति
पूर्वसङ्गतिको देव आराधितः। तस्मै प्रोक्तम्-'भो! द्रौपदी शीघ्रं आनय। ततः स देवा तत्र गत्वा, अवखापिनी निद्रां दत्वा, युधिष्ठिरस्य पावें सुप्तां द्रौपदी उत्पाव्य, पद्मनाभस्य अशोकवाटिकायां आनीय मुमोच । ततः पद्मनाभेन दृष्टा सती प्रार्थिता । तदा द्रौपद्या प्रोक्तम्-'मम प्रियमातुः भ्रातृव्यः कृष्णवासुदे|वोऽस्ति, स यदि षण्मासमध्ये मम शुद्धिं न करोति, तदा तवाग्रे अस्मि।' ततः पद्मनाभेन विचारितम्-'बलात् नप्रीतिः' इति हेतोः मौनमाधाय अन्तःपुरमध्ये मुक्ता, द्रौपदी च षष्ठषष्ठपारणे आचाम्लं कुर्वती तस्थौ । अथ-द्रौपदीसंहरणानन्तरं पृष्टो [पश्चात् ] किं जातं? तदाह-मुहूर्तात् युधिष्ठिरः प्रबुद्धो द्रौपदी पार्थे न पश्यति सर्वत्र विलोकिता, परं न कुत्रापि श्रुतिमात्रमपि प्राप्तम् । ततः पण्डुनृपाय स्वरूपं [निरूपितं] निवेदितम् । ततः पण्डराजेनापि कौटुम्बिकद्वारा सर्वत्र पुरमध्ये उद्घोषणा दापिता, परं न शुद्धिर्जाता । ततो ज्ञातम्"केनापि देवेन दानवेन वा गन्धर्वेण वा किन्नरेण वा किम्पुरुषेण वा अपहृता ज्ञायते।" पुनः राज्ञा प्रोक्तम्-"यो दौपदीशुद्धिं पक्ति तस्मै खेप्सितां सम्पत्तिं ददामि।" परं न कोऽपि जानाति । ततः पाण्डुराजेन निजभार्या कुन्ती कृष्णपाधं शुद्धिकारापणाय मुक्ता। कुन्त्यपि द्वारिकाया उद्याने गत्वा, खयं स्थित्वा कौटुम्बिकेन निजागमनं ज्ञापयामास । कृष्णोऽपि हस्तिस्कन्धारूढः सपरिकरः सन्मुखमागत्य, हस्तित उत्तीर्य पादयोः निपत्य महाविच्छित्त्या निजपितृष्वसारं [स] निजमन्दिरे आनीतवान् । आगमनप्रयोजनं च पृष्टम् , कुन्त्याऽपि द्रौपदीसंहरणं ज्ञापितम् । ततः कृष्णेन प्रोक्तम्-“यस्या एको भर्ता भवति सोऽपि स्वकीयां भार्या रक्षति,
XOXOX
पुरुषेण वा अजानाति । ततपस्थित्वा कीड पादयो
For Private and Personal Use Only