________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं
कल्पलता व्या० २
Acharya Shri Kailassagarsuri Gyanmandir
नारदेन रुष्टेन विचारितम् - "इयं द्रौपदी रूपलावण्यादिना गर्विता, पञ्चभर्तृवल्लभा च ततः एनां सपत्नीशतसंकटे पातयामि ।" इति विचार्य नारदो धातकीखण्डे दक्षिणार्ध भरते अमरकङ्कानगर्यां स्त्रीलोलुपस्य पद्मनाभस्य राज्ञः सभायां गतः । ततः पद्मनाभेन खकीयसतशत सुन्दरीसौन्दर्यतो जातगर्वेण प्रश्नः कृतः - 'भो नारद । मम अन्तःपुरसदृशं कस्यापि अन्तःपुरं दृष्टं न वा ?' ततो नारदेन कूपमण्डूकदृष्टान्तदानेन मानमुत्तार्य ॥ ३७ ॥ द्रौपदीरूपवर्णनं कृतम् । ततः कन्दर्पदर्षोन्मादेन पद्मनाभेन पौषधशालायां गत्वा उपवासत्रयं कृत्वा,
१. कूपमण्डूकदृष्टान्तश्च इत्थं वरीवर्ति एकदा कश्चित् समुद्रदर्दुरः चत्र कुत्र भ्रमन् कूपदर्दुरं मिलितः । तं दृष्ट्वा परस्परयोः अपरिचि तत्वेन कूपदर्दुरः अपृच्छत्- 'अयि सजातीय ! त्वं क नित्रससि ?, कुतश्च समागतः ? । समुद्रदर्दुरश्च तं प्रत्युवाच- 'भोः ! समुद्रे | अहं निवसामि समुद्राय समागतोऽहम् अत्र ।' ततश्च सकुतूहल: कूपदर्दुरः तं पप्रच्छ-'भो समुद्रदर्बुर ! स समुद्रः क्रियान बृहत् ? । पृष्ट्वा चेत्थं खचरणौ परितः प्रसारयम् तं च प्रदर्शयन् सन् पुनः अप्राशीत् - 'सोऽयं समुद्रः एतावत्प्रमाणः किम् ? ' सोऽप्यवादीत्- 'नहि नहि, इतोऽपि वृहत्तमः । ततः कूपदर्दुरः तत्कूपस्य एककोणात् उत्पुत्य अन्यस्मिन् कोणे च प्राप्तः पृष्टवान् - ' अपि नाम इयत्प्रमाणः किम् १। समुद्रद्रयावदत् - 'ततञ्चापि महाप्रमाणः । तदा कूपदर्दुरः क्रूपस्यान्तः गत्या परितो भ्रमणं च कृत्वा पप्रच्छ-'अथ किं इयत्प्रमाणः स समुद्रः ?' सदा हसन् समुद्रददुरः प्रोवाच रे कूपमण्डूक ! समुद्रस्तु ततोऽपि महत्प्रमाणः । अनेन प्रत्युत्तरेण क्रोधातिरेकसंयुक्तः अवादीत्- 'रे असत्यवादिन् ! स एतावान् हृहत् समुद्रः कुत्राप्येव नास्ति, नाभूत् नापि भविष्यति च यतोऽयं न मया श्रुतः दृष्टो वा योऽयं एतस्मादपि वृहत्तम इत्येत्रं त्वं ब्रूषे । दूरे याहि । इत्यचिवाम् इति ॥
For Private and Personal Use Only
XXKe ***** XX
Xex
दश आश्चर्याणि
॥ ३७ ॥