________________
Shri Mahavir Jain Aradhana Kendra
कल्प० ७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च गृहीतम्, निष्फला देशना जाता । नहि कदापि तीर्थङ्कराणां देशना निष्फला भवति । इयं च प्रथमदेशना | निष्फला जाता || अतः इदं चतुर्थ आश्चर्यम् ॥ ४ ॥
अध-"कण्हस्स अमरकंकागमणं" ति पंचमं व्याख्यायते - एकदा हस्तिनागपुरे पञ्चपाण्डवद्रौपदी - कुन्तीप्रमुखपरिवारपरिवृतः पण्डुराजः सिंहासने उपविष्टोऽस्ति । तस्मिन्नवसरे सभायां कच्छुल्लनामा नवमो नारदः समागतः परं कीदृशोऽस्ति नारदः, दर्शनेन अतिभद्रकः पुनर्विनीतः पुनः अन्तर्दुष्टचित्तः, पुनः आश्रितानां सौम्यप्रियदर्शनः पुनः अमलिनं अखण्डं वल्कलचीरं येन परिधानीकृतं अस्ति । पुनः येन कृष्णमृगचर्मणां हृदये उत्तरासङ्गः कृतोऽस्ति । पुनः यस्य जटाजूटेन शिरो दीतं वर्तते । पुनः यज्ञोपवीत रुद्राक्ष कृतकलाचिका| भरणमुञ्जमेखला वल्कलचीरप्रमुखतापसोपकरणानि धरन, हस्तकृतकच्छ[च्छु]पिकः गीतप्रियः, पुनः आकाशगामिनी - पातालगामिनी - स्तम्भिनी- मोहनी - प्रज्ञप्ती - गौरी - इत्यादि विद्याधरसंयन्धि विद्याभिः विख्याता कीर्तिः यस्य सः । पुनः श्रीरामकेशवयोः अभीष्टः । पुनः शाम्बप्रद्युम्नानिरुद्धनिषधसारणगज सुकुमाल सुमुखादियादबिसार्धत्रयकुमारकोदीनां हृदयवल्लभः । पुनः कलहयुद्ध - कोलाहलप्रियः । पुनः भण्डनस्य अभिलाषी । पुनः बहुसङ्ग्रामाणां दर्शने उत्सुकः । पुनः लोकानां असमाधिकरः, एतादृशः सन्, गगनतलमुल्लङ्घयन् कलहकन्दलं अनुगवेषयन्- आगतः । ततः पण्डुराजप्रमुखैः सन्मानितः ततः उत्थाय अन्तःपुरमध्ये गतः, तत्र द्रौपद्या अभ्युत्थानादिना न सत्कारितो न संमानितः, यतः अयं असंयती = अविरतः अप्रख्यात पापकर्मा । ततो
For Private and Personal Use Only
XsXsX Xs-o-KoXe