________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
www.kobatirth.org
*-*-*-**->
दश
गंभीरपत्तनं गत्वा पुनः द्वीपान्तरं चलिताः । तस्मिन्नवसरे इन्द्रेण अरहन्नकश्रावकस्य सभासमक्षं प्रशंसा कुता - 'अद्य भरतक्षेत्रे अरहन्नकसदृशो दृढसम्यक्त्वस्य धारको अन्यः कोपि नास्ति । तद्वचनं श्रुत्वा, कोऽपि आश्चर्याणि व्या० २ २ मिथ्यात्वी देवोऽसहमानः तत्रागत्य महत उत्पातान् कृतवान् । मिथ्यात्विलोकाः स्वकीयस्वकीयदेवान् हरिहरादीन् स्मरन्ति स्म । अरहन्नकस्तु श्रावकः साकारं अनशनं प्रत्याख्याय, वीतरागदेवं स्मरन् अक्षोभ्यः ॥ ३५ ॥ स्थितो, देवेन बहुप्रकारं क्षोभितोऽपि न क्षुब्धः, ततो देवेन प्रोक्तम्- 'बीतरागदेवं मुक्त्वा, हरिहरादिदेवान् स्मर, यथा उत्पातं निवारयामि, नो चेत् तव अधर्मेण सर्वान् समुद्रे बोलयिष्यामि, पापं च तव ।' लोकैरपि सर्वैः प्रोक्तम्- 'अरहनक ! एवं कुरु, परं अरहनको निजसम्यक्त्वधर्मे दृढः स्थितः । ततः देवः तुष्टः चलत्कुण्डलाभरणो भूत्वा प्रदक्षिणां दत्त्वा करकमलं योजयित्वा स्तुवति स्म - 'अहो अरहनक ! त्वं धन्यः, त्वं कृतपुण्यः, तव जन्म जीवितं च सफलम् इन्द्रः त्वां व्याख्यानयति, सन्याय ( 2 ) एव तुष्टोऽस्मि, याचख यत् कथयसि तत् ददामि।' अरहन्नकः प्राह- 'उभयलोकसाघको जिनधर्मो मया प्राप्तोऽस्ति, अन्यत्तु मम किमपि न विलोक्यते, अतो 'अमोघं देवदर्शनम्' इत्युक्तत्वा, अनिच्छतोऽपि कुण्डलचतुष्टयं देवो दत्त्वा स्वस्थानं गतः । अथ ते व्यवहारिणः कुशलेन गंभीरपत्तनं प्राप्य क्रमात् मिथिलायां आगताः । तत्र कुम्भस्य राज्ञः कुण्डलद्वयं प्राभृतीकृतम्, राज्ञा च मल्लीकुमार्यै दत्तम् । ततः चम्पायां आगताः तत्र चन्द्रच्छायराज्ञे स्वकीयस्वामिने अन्यत्कुण्ड - लद्वयं प्राभृतीकृतम्। तस्मिन्नवसरे राज्ञा पृष्टम् -'भो व्यवहारिणः ! परदेशे किमपि आश्चर्यं दृष्टम् ? ।' तदा तैः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
***♚****
॥ ३५ ॥