________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
www.kobatirth.org
मल्टीकुमार्या रूपवर्णनं कृतम्-'न एतादृशं कापि रूपमस्ति। ततः चन्द्रच्छायराजेनापि कुम्भं प्रति दूतो मुक्त:-'यत् मल्ली मम देया' इति (२) पुनः इतश्च अन्यदा मल्लीकुण्डलं भग्नं कुम्भेन राज्ञा । कुण्डलसन्धानार्थ स्वर्णकारः समादिष्टः। स प्राह-'हे देव ! इदं देवसम्बन्धि कुण्डलं न मया सन्धातुं शकाते । ततो रुष्टेन% राज्ञा स स्वर्णकारो देशात् निष्कासितो, गतो वाराणस्यां शङ्खराज्ञः समीपे निजवासार्थम् । राज्ञा पृष्टम्-'कथं खदेशं त्यक्त्वा अनागतः। तेन कुण्डलसम्बन्धं कथयता मल्लीरूपवर्णनं कृतम् , तेनापि शङ्खराजेन कुम्भं प्रति दूतो मुक्तः (३) इतश्च रुक्मिराजेनाऽपि सुबाहुनाच्या निजपुत्र्या कृते चातुर्मासिकमजनविच्छित्तौ क्रियमाणायां दूताः पृष्टाः, ते पाहुः-'मल्ले मन्जनक[गृहस्थाने इदं लक्षांशेऽपि नायाति। तेनापि रुक्मिराजेन कुम्भ प्रति मल्ली निमित्तं दूतो मुक्तः (१) इतश्च कुम्भपुत्रेण मल्ले: लघुभ्रात्रा मल्लादिनन चित्रकरैः चित्रसभा चित्रपिता । चित्रकरण लब्धिमता यवनिकान्तरितमल्लिपादाङ्गुष्टं दृष्ट्वा, मल्लीरूपं (यथावत्) तत्स्वरूपं चित्रितमासीत् । तत्रैकदा मल्लदिन्नः स्वभार्याभिः सह क्रीडन्, मल्लीरूपं दृष्ट्वा लज्जितो रोषात् हस्तौ छित्त्वा चित्रकरो देशानि:कासितः। स हस्तिपुरं गत्वा अदीनशत्रो राज्ञो मिलितः, मल्लीरूपवर्णने कृते अदीनशत्रुराजेनाऽपि मल्लीनिमित्तं कुम्भं प्रति दूतो मुक्तः (१) इतश्च धर्मचर्चायां एका परिवाजिका चोखेति नाम्नी, मल्लीकुमार्या जिता मानभ्रष्टा कृता । सा रुष्टा सती कम्पिलानगर्या गत्वा, जितशत्रुराजस्याग्रे मल्लीरूपं पटे लिखित्वा दर्शयति स्म । तेनापि राज्ञा रूपमोहितेन मल्लीकृते कुम्भं प्रति दूतो मुक्तः (६) एवं षण्णामपि राज्ञां पडपि दूताः समकालं
For Private and Personal Use Only