________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयन्ते विमाने देशोन(ईषदून)द्वात्रिंशत्सागरोपमायुष्काः देवाः समुत्पन्नाः। ततश्युत्वा आयो अचलजीवोऽयोध्यायां प्रतिबुद्धिनामा राजा जातः१, द्वितीयो धरणजीचः चम्पायां चन्द्रच्छायो राजा ज्ञातः२, तृतीयो अभि-* चन्द्रजीवः काशीनगयाँ शङ्को राजा जातः ३, चतुर्थः पूरणजीवः श्रावस्त्यां रुक्मीनामराजा जातः ४, पञ्चमो वस्तुजीवः कुरुषु अदीनशत्रुनामा राजा जातः ५, षष्ठो वैश्रमणजीवः कम्पिलायां जितशत्रुनामा राजा जातः ६ एवं षडपि पृथक् पृथक स्थानेषु राजानो जाताः। महाबलजीवस्तु मिथिलानगर्या कुंभराज्ञः प्रियायाः प्रभावत्याः कुक्षी चतुर्दशस्वमसूचितः समुत्पन्नः, अश्विनीनक्षत्रे मार्गशीर्ष शुक्लकादश्यां ११ रात्री मल्लीकुमारीत्वेन अईन् जातः । क्रमात् मल्ली यौवनं प्राप्ता, अवधिज्ञानेन षडपि पूर्वभवमित्रनपान अन्यान्यस्थानेषु उत्पन्नान जानाति स्म । ततः तेषां प्रतिबोधनाय रत्नमयं मोहनगृहं अशोकवाटिकामध्ये कृतम्, तस्मिन् मोहनगृहे षडपचरिकासहिते जालमण्डपे रत्नमयीं शिरछिद्रां खमूर्ति चक्रे । ततो मल्लीप्रतिदिन एकैकां अन्नपिण्डी स्वहस्तेन मूर्तिच्छिद्रे क्षित्वा क्षिप्त्वा रत्नोत्पलपिधानं ददाति । इतश्च अयोध्यायां सुप्रतिबुद्धिराजा पद्मावत्या खदेच्या नागयक्षमन्दिरे पूजार्थ रचितं अत्यन्तं अद्भुतं श्रीदाम दृष्ट्वा दूतान् पृच्छति स्म-'भो दूताः! ईदृशं कापि श्रीदाम दृष्टम् । तदा दूतैः प्रोक्तम्-'हे राजन् ! मल्लीकन्याया इतोऽपि अधिकतरं दृष्टम् , तस्याग्रे इदं लक्षांशोऽपि नायाति।' का मल्ली? कीदृशी च?, तैः सर्व स्वरूप निवेदितम् । ततः पूर्वभवप्रेमवशात् मल्लीयाचनार्थ राज्ञा कुंभराजानं प्रति दूतो मुक्तः (१) इतश्च चम्पानगर्या अरहन्नकप्रमुखा व्यवहारिणः सन्ति, ते च प्रवहणैः चलिताः
XXXXXXXXX
For Private and Personal Use Only