________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०२
आश्चर्याणि
॥३४॥
Co-KeXXXXXXXXXXX
अथ-"इत्थीतित्यत्ति” तृतीयमिदं आश्चर्यम्-मल्लीकुमार्या स्त्रीवेदत्वेन तीर्थं प्रवर्तितम् । तत्सम्बन्धो यथाश्रीमहाविदेहक्षेत्रे सलिलावतीविजये वीतशोकायां नगर्या बलो नाम राजा, तस्य धारिणीनाम्नी भार्या, तयोः महाबलः पुत्रो द्विसप्तति-कलाबान् । पित्रा यौवने कमल श्रीप्रमुखपञ्चशैतकन्यानां पाणिग्रहणं कारितः। पञ्चशतानि सौधानां रत्नवर्णरूप्यादीनां च पित्रा यौतके दत्तानि, बलो महायलाय राज्यं दत्त्वा चारित्रं गृहीतवान् , क्रमात् मोक्षं च प्राप्तः। अथ महाबलस्य राज्ञः अचल १ धरण २ अभिचन्द्र ३ पूरण ४ वसु ५ वैश्रमणाः ६ षट्र मित्राणि मिलितानि । अन्यदा गुरोः पार्थे धर्म श्रुत्वा, पडिः मित्रैः समं चारित्रं गृहीतम् । सप्ताऽपि गुरुप्रसादात् एकादशाङ्गानि पेटुः । 'सर्वैः समानं तपः कार्यम्' इति प्रतिज्ञां कृत्वा, तपः कर्तुं प्रारब्धम् । महावलस्तु । आगामिभवेऽपि 'अहम् एतेभ्यो अधिको भवामि इति हेतोः, अधिकतपःकरणाय पारणकदिने 'शिरो मे दृष्यति' इत्यादि मिषं कृत्वा मायया उपवासं कृत्वा, मायाप्रत्ययं स्त्रीगोत्रं कर्म बद्धवान् । विंशतिस्थानकसेवनेन तीर्थङ्करनामगोत्रमपि बद्धवान् । ततः षडिः अपि लघुसिंहनिःक्रीडितं तपः प्रारब्धम् । तद्विधिः अयम्-प्रथमश्रेण्यां पारणे विकृतित्यागः १. द्वितीय श्रेण्यां निर्विकृतिकत्यागः २, तृतीयश्रेण्यां अलेपकृत् आहारः ३, चतुर्थश्रेण्यां आचाम्लः ४, दिनमानमिदं वर्षद्वयम् दिनानि अष्टाविंशतिः १ एवं महासिंहनिःक्रीडितं अपि तपः प्रारब्धम् । तदपि पूर्ववत् । नवरं दिनमानमिदं षड्वर्षाणि मासद्वयम् अष्टादश च दिनानि। ततः सर्वेऽपि प्रान्ते द्विमासिकी संलेखनां कृत्वा, चतुरशीतिपूर्वलक्षाः चतुरशी तिसहस्राश्च वर्षाणां आयुः प्रपाल्य सप्तापि
॥३४॥
For Private and Personal Use Only