________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
रक्षिष्यामि ।' एतत् गोशालकवचनं श्रुत्वा, भीतः आनन्दमुनिः, भगवत्समीपे आगल्य, सर्व कथितवान् । भगवताऽपि गौतमादीन् आकार्य प्रोक्तम्-'भोः! गोशालकः समागच्छन्नस्ति, सर्वेऽपि दूरीभवन्तु, न केनापि किमपि वक्तव्यम् ।' ततो गोशालक आगत एच, आगत्य च भगवन्तं प्रति प्राह-भोः शोभन आयुष्मन् काश्यप! त्वं मां प्रति एवं वदसि-यत् 'गोशालो मङ्गलिपुत्रः' यो गोशालः तव शिष्योऽभूत्, स तु मृतः, अहं तु अन्य एवाऽस्मि । परं गोशालकशरीरं परीषहसहनसमर्थ ज्ञात्वा मध्ये प्रविष्टोऽस्मि ।' इत्यादि कल्पितवृत्तान्तं कथयति स्म । एवं सति सर्वानुभूतिसुनक्षत्रनामानी द्वौ साधू खधर्माचार्यश्रीवीरपराभवं असहमानौ गोशालकनिवारणाय प्रवृत्ती, गोशालेन कोपेन तेजोलेश्यया दग्धौ । ततः भगवता प्रोक्तम्-'भो गोशालक! त्वं अन्यथा जल्पनेन किं आत्मानं अपलपसि? त्वं मया मुण्डितो, मयैव शिक्षितो, मयैव बहुश्रुतवान् कृतः, ततो माऽवादीः वृथा। ततः पुनरपि गोशालकेन तेजोलेश्या मुक्ता, सा श्रीभगवन्तं प्रदक्षिणीकृत्य भगवच्छरीरं अनुतापयन्ती गोशालकशरीरे एवं प्रविष्टा । तया गोशालकशरीरं दग्धम्। गोशाला सप्तमरात्री कालं कृतवान् । भगवतश्च शरीरे तत्या लोहितस्थानं जातम्-इदमाश्चर्यम् , ततश्च अश्वनिमित्तेन कृतेन औषधपाकेन रेवत्या सिंहोऽनगारः प्रतिलाभितः, सिंहेनाऽपि भगवतः पाकः प्रदत्तो भगवता कोष्ठके प्रक्षिप्तः-समाधिश्व जातः॥ इति प्रथमं आश्चर्यम् ॥ १ ॥ अप्थ-“गम्भहरणंत्ति" गर्भहरणं प्रतीनं इदमेव वाच्यमानमाश्चर्यम् ॥ इति द्वितीयमाश्चर्यम् ॥२॥
*शिक्षितो, मयैव बहुतात् भगवच्छरीरं अनुतापयन्ता शरतच्या लोहित
श्रीभगवन्तं प्रदक्षिणीकल कालं कृतवान् । भगवतश्च शप्रतिलाभितः,
For Private and Personal Use Only