________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० २
॥ ३३ ॥
XOXOXO***********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
दत्तम् । स कियत्काले मम मिलितः, षड्वर्षाणि छद्मस्थेन मया सार्धं विहृतः अस्मत्तः [ मत्तः ] एव बहुश्रुतवान् जातः, नायं जिनो नायं सर्वज्ञः' । इदं भगवतो वचनं श्रुत्वा, बहुजना नगर्यां त्रिक-चतुष्क- चत्वरादिषु परस्परं एवं वदन्ति स्म - यत् " गोशालो मङ्कलिपुत्रो न जिनो न सर्वज्ञ इति ।” गोशालो लोकात् इति वचनं श्रुत्वा, कुपितः सन् गोचर्या (गोचरचर्यार्थ = भिक्षार्थ ) नगर्यां आगच्छन्तं भगवतः अन्तेवासिनं आनन्दनामानं साधु एवं प्राह-'भो आनन्द ! त्वं एहि, एक दृष्टान्तं शृणु - केऽपि वणिजो धनार्थिनो नानाप्रकारकयाणकैः शकयानि भृत्वा, देशान्तरं प्रति चलिताः, महाटव्यां प्रविष्टाः तृषापीडिताः सन्तो जलं गवेषयन्ति । तत्र चत्वारि वल्मीकशिखराणि शालवृक्षाणां मध्ये दृष्टानि । अत्र पानीयं भावि इति ज्ञात्वा, एकं शिखरं तैः भिन्नम् । तत्र पानीयं निःसृतं आकण्ठं पीतम्, भाजनानि च भृतानि । ततो लोभार्थिभिः वृद्धपुरुषेण कष्टदर्शिना वार्यमाणैः अपि द्वितीयं शिखरं भिन्नम्, तस्मात् सुवर्णं निःसृतम् । एवं तृतीयं भिन्नम्, तस्मात् रत्नानि निःसृतानि । पुनः लोभाचतुर्थमपि शिखरं भिन्नम्, ततः तस्मात् महाकालः कृष्णवर्णः रक्तलोचनः कोपारुणो लपलपायमानजिह्वः भुजङ्गमो निःसृतः स सूर्यसन्मुखीभूय दृष्ट्या सर्वान् समकालं ज्वालयामास । परं यो हितशिक्षादाता वृद्धवणिक् अभूत् स न्यायदर्शी इति हेतोः, वनदेवतया अनुकम्पया जीवन् रक्षितः सन् २८ ॥ ३३ ॥ | स्वस्थानं प्राप्तः । एवं त्वदीयं धर्माचार्य महावीरं आत्मीयसम्पदा अपरितुष्टं मम अवर्णवादविधायिनं अहं अद्य स्वकीयतपसा भस्मसात् करिष्यामि इति त्वं पश्य । एषोऽहं प्रचलितोऽस्मि त्वां च न्यायदर्शित्वात् वृद्धपुरुषवत्
**ox
दश
आश्चर्याणि