________________
संस्कृतीका-भाषार्टीकासहिता। (३७) च्छिन्नमसदूपमात्मज्ञानकबोध्यं च अत्रेदमाकूतं यद्यपि लिंगशरीराध्यासे नात्मनः कर्तृत्वभोक्तृत्वादिभावस्तथाप्यात्मनः स्वतस्तदभावज्ञानेनाऽध्यासनिवृत्तावकर्तृत्वाभोक्तृत्वादिभावसिद्धिरिति वेदांतिनां न किंचि दपसिद्धांतोऽन्यवदिति मंगलम् ॥ ३९ ॥ __भा. टी. लिङ्ग और कारण इन दोपकारका शरीर नाना प्रकारके शरीरोंके सम्बन्ध करकै युक्त चञ्चल विकारी एकदेशमें रहनेवाला और असत्स्वरूप है फिर किसप्रकार देह मय आत्मा होसकै है ॥ ३९ ॥
एवं देहव्यादन्य आत्मा पुरुषईश्वरः ॥सर्वात्मा सर्वरूपश्च सर्वातीतो हमव्ययः॥४०॥ सं.टी. इदानीं पूर्वोक्तमर्थमुपसंहरति एवमिति । एवं पूर्वोक्तप्रकारेण देहव्यात् स्थूलसूक्ष्मलक्षणादन्यो भिन्न आत्मा कोऽसावित्यत आह पुरुष इति पुरुषः शरी राधिष्ठाता तर्हि किं जीवः नेत्याह ईश्वर इति तत्र हेतुः सर्वात्मेति तर्झदैतहानिः स्यादित्यत आह सर्वरूप इति एवंसति विकारित्वं स्थादित्यतआह सर्वातीत इति एतादृश आत्माचेदस्ति तर्हि कुतो नोपलभ्यत इत्यतआह अहमिति अहंप्रत्यक्षोऽहंशब्दप्रत्ययालंबनत्वेन सर्वदो पलब्धिस्वरूप इत्यर्थः ताईकारः स्यान्नेत्याह अव्यय