________________
(४) अपरोक्षानुभूतिः । पया अपरोक्षानुभूतिरक्षाणामिद्रियाणां परमतीतं नभवतीत्यपरोक्षमिद्रियाधिष्ठानतत्प्रकाशत्वाभ्यां नित्य प्रत्यक्षस्वप्रकाशात्मतत्त्वं तस्यानुभूतिवृत्त्यारूढाखंडता यद्वा अपरोक्षाचासावनुभूतिश्चेत्यपरोक्षानुभूतिविद्याऽपरपर्यायोब्रह्मसाक्षात्कारस्तत्साधनग्रंथोप्युपनिपच्छब्दवदपरोक्षानुभूतिशब्देनोपचर्यते झटित्यवलोकनमात्रेणैवोत्तमाधिकारिणां ब्रह्मात्मसाक्षात्कारकारणं ग्रंथविपइत्यर्थः अनेन नित्यापरोक्षब्रह्मात्मतत्त्वं विशेषयो दर्शितः स प्रोच्यते प्रकर्षण तत्तदाशंकानिरा करणपूर्वक सिद्धांतरहस्यप्रदर्शनरूपेणोच्यते कथ्यत इत्यर्थःअस्माभिःपूर्वाचायरित्यर्थाध्याहारः ननु प्रायः प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इतिन्यायानारंभणीयो ग्रंथ इत्याशंस्य प्रयोजनमाह मोक्षसिद्धयइति मोक्षोनाम स्वाविद्याकल्पितानात्मदेहाद्यात्मत्वाभिमानरूपबंधनिवृत्तिद्वारा स्वस्वरूपावस्थानं तस्य सिद्धिः प्राप्तिस्तदर्थ अनेनसर्वानर्थनिवृत्तिद्वारापरमानंदावाप्तिरूपं प्रयोजनं दर्शितं किंलक्षणाऽपरोक्षाऽनुभूतिः सद्भिः साधुभिनित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसंपन्न - मुक्षुभिरित्यर्थः एवशब्दानान्यैः कर्मोपासनाधिकारिभिरितिभावः । मुहुर्महुनैरतर्यदीर्घकालाभ्यासप्रयत्नेन स्नानभिक्षादावप्यनादरं कृत्वेत्यर्थः । वीक्षणीया गुरुमुखादवगत्य विचारणीया अनेन मुमुक्षुरधिकारी दर्शिता