________________
'संस्कृतटीका-भाषाटीकासहिता , ( ५.) एतेनेवार्थात् पूर्वकांडोत्तरकांडयोः साध्यसाधनभावः संबंधश्च दर्शितो भवतीति बोद्धव्यम् ॥ २॥ . ___ भा. टी. इस असार संसारसे मुक्तिक कारण "अपरोक्षानुभूति" ग्रन्थको केहूंहूं इस ग्रन्थको सज्जनपुरुष वारंवार प्रयत्न कर देखेंगे ॥२॥ - स्ववर्णाश्रमधर्मेण तपसा हुरितोष. णात् ॥ साधनञ्च भवेत्पुंसां वैराग्या
दिचतुष्टयम् ॥३॥ सं.टी. ननु कार्यस्य कारणाधीनत्वात् पूर्वोक्तसाधनचतुष्टयस्य किं कारणमित्याशंक्याह स्ववर्णेति अत्र स्वशव्देन मुख्यगौणमिथ्याभेदेन त्रिविधेष्ठ साक्षिपुत्रादिदेहादिलक्षणेष्वात्मसु मध्ये मिथ्यात्मायोग्यत्वागृह्यते तस्य देहादेबाह्मणादिवर्णब्रह्मचर्यायाश्रमप्रयुक्तेन धर्मेण ब्रह्मापणकृतकर्मानुष्ठानजन्येनाऽपूर्वेण पूर्वमीमांसाशसिद्धेन - भाविफलाधारभूतेन पुण्यादिशब्दवाच्येनेत्यर्थः तथा तपसा कृच्छ्रचांद्रायणादिना प्रायश्चित्तेनेत्यर्थः पुनः हरितोषणाद्भगवत्प्रीतिकरात्सर्वभूतदयालक्षणात् कर्मविशेषात् एतैत्रिभिः साधनैः वैराग्यादिचतुष्टयरूपं साधनं मोक्षसाधको धर्मविशेषः पुंसां प्रभवेत् संभावना यां लिङ् यद्वैवमन्वयः स्ववर्णाश्रमधर्मरूपेण तपसा कृत्वा यद्धरितोषणं तस्मादिति यद्यपि साधनचतुष्टय