________________
सर्वज्ञसिद्धौ
॥६॥
अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रमाणाभावात्, तस्य चोपादानेतरनिमित्तप्रभावेन स्वपराधीनत्वात् अर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञप्तेः, कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्त्तनात्, न च विज्ञानस्यार्थपरिच्छेदलक्षणोऽपि धर्मो व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथश्चिदव्यतिरेके च तद्वत्तस्यापि भावः, न च ज्ञानस्यापि न परतः 'इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतु' रितिवचनात् परतो भावसिध्धेः, न चागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्यं तस्य विहितानुष्ठानफलत्वात्, न चादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात्, न च ते सुखादिरूपत्वाद् दृश्या एवेति न्याय्यं, प्रकृष्टसुखाविशेषस्यादृश्यत्वात्, न च सुखमात्रानुभवरूप एव स्वर्गः, अतिप्रसंगात्, यतः कुतश्चित्तदभावेन चोदनानर्थक्यापत्तेश्च न च सुखसामान्यदर्शनात् वः प्रकृष्टतद्विशेष सम्भवानुमानमबाधकं, ज्ञानसामान्यदर्शनेन प्रकृष्टतद्विशेषसम्भवानुमानप्राप्तेः स्यादेतद्-अर्हन्नेवागमस्य वक्ता (के बल्युक्तत्वं ) केवलित्वाच्चास्य तदुक्तानुष्ठानफलत्वमितीतरेतराश्रयदोषः न च वेदवक्तृष्वपि हिरण्यगर्भादिषु समानत्वात्तेषामपि विशेषेण तदुक्तानुष्ठानफलत्वात्, अनादिमत्त्वादस्य तद्वन्त एव वक्तार इति चेदितरत्रापि समानमेतत्, अर्हतामप्यनादित्वाभ्युपगमात्, तेऽन्यवेदवक्तृवेदवक्तार इति चेदईन्तो ऽप्यन्यार्हदुक्तागमवक्तार इवि समानमेव, तदन्या र्हदुक्तत्वा|नपेक्षित्वेन तेषां तद्वक्तृत्वादसमानमिति चेन्नानपेक्षित्वासिध्ये, तयैवानुपूर्व्याऽभिधानात्, अन्याईन्मुखाधीतागमवक्तारो न भवन्तीत्यसमानमेवेति चेन, जातिस्मरणातिशयवेदवक्तृत्ववत् केवलातिशयतस्तदा तथाऽऽगमवक्तृत्वेऽन्याईन्मुखातत्वस्याप्रयोजकत्वात्, अन्यदा चान्यतद्वक्तृत्वमुखाधीतत्वस्य तत्राइत्यपि समानत्वात्, अवेदत्वादागमस्यासमानमिति चेन्नावेद एवागमे न्यायमार्गतुल्यतायाः प्रतिपादयितुमिष्टत्वाद्, अन्यथा वेदस्याप्यनागमत्वात् नास्मदुक्तन्यायानुपातित्वमिति वक्तुं शक्यत्वात्, भवदागमप्रामाण्ये विगानमिति चेत् ? वेदप्रामाण्येऽपि तुल्यमेतत्, तथापि स एव प्रमाणं नागम इति चेन्न कोशपानादृते प्रमाणाभावात् एवमितरेतराश्रयदोषानुपपत्तेश्वोदनानुष्ठानफलत्वेनागमात् सिध्धः सर्वज्ञ
पूर्वपक्ष
खणुनम्
॥६॥
Scanned by CamScanner