________________
प
Scanned by CamScanner
म्
सर्वज्ञसिद्धौ इति । उपमानगोचरातिक्राम्बत्वमपि न न्यायसङ्गतमुपलब्धसर्वज्ञस्य हृद्रताशेषसंशयपरिच्छेदाविना तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिध्धेः,अगृही
ला तमोगवयस्य गव्यप्यसिध्धेः, न चैतावता गोस्तद्गोचरातिक्रांतत्वं, अनभ्युपगमात्, न स केनचिद् गृह्यत इत्यसिध्धं, विकल्पानुपपत्तेः, तथाहि-कि | प्रमाणेन न गृह्यते उताप्रमाणेन वेति वाच्यं?, यद्यप्रमाणेन सिध्धं साध्यते,तस्याप्रमाणेन ग्रहणानभ्युपगमात् ,अथ प्रमाणेन किं तद्ग्राहकेणोतातद्| ग्राहकेणेति?,न तावत्तग्राहकेण, तस्य तद्ग्रहणविरोधात्,तथाहि-तग्राहकं न च तद् गृणातीतिविरुध्धमेतत् ,अतग्राहकाग्रहणे तु तदभावासिन्धिः, तदभावेऽपि घटादिभावसिध्धेः, तथाहि-न पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो न सन्त्येव घटादयः, तद्ग्राहक प्रमाणमेव नास्तीति चेदुच्यते किं भवत एवोताहो सर्वप्रमात्दृणामिति?, यदि भवत एव सिध्धं साध्यते, भवतः परोक्षत्वात् प्रवचनार्थानवगतेश्च, अथ सर्वप्रमातृणा| मित्यत्र न प्रमाणं, तश्चेतसामप्रत्यक्षत्वाद्,अन्यथा तद्मावनिश्चयानुपपत्तेः, तत्प्रत्यक्षताभ्युपगमे च तत्संवेदनवतः तथाऽतीन्द्रियोपलम्मकत्वाभ्युपगमात् तद्भावसिध्धिरेव, प्रधानादीनामप्येवं प्रतिषेधानुपपत्तितः तत्सत्तापत्तेर्यत्किश्चिदेतदिति चेन्न, स्वतोऽदर्शनादतीन्द्रियोपलम्मकपुरषवचनत औत्सुक्यानुपपत्तेश्च तत्प्रतिषेधसिध्धेः,असर्वज्ञेन तद्ग्रहणमपि न युक्त्युपपन्नमिति चेन्न, हृद्गताशेषसंशयच्छेदादिना तद्ग्रहणोपपत्तेः।
असम्पूर्णवैयाकरणादिरप्यवगतकतिपयपृष्टसूत्रादिकाथितयथावास्थितार्थतत्वैः सम्पूर्णवैयाकरणादिग्रहणदर्शनात् , सर्वत्र तथा तळ्यवहारसिध्धेः, | अन्यथा तदुच्छेदप्रसङ्गात् , अब्राह्मणेन ब्राह्मणपरिज्ञानानुपपत्तेः,तत्स्वयंकथनस्य सर्वशेऽपि तुल्यत्वाद् ,हृद्गताशेषसंशयपरिच्छेद्यपीदानीं न काश्चदुपलभ्यत इति चेत् सत्यमिदं,इहेदानी कालदोषतस्तदनभ्युपगमात् , तदानीमासीदित्यपि कथं ज्ञायत इति चेत्तदुपलब्धसम्प्रदायाविच्छेदेन, न स दुःसम्प्रदाय इत्यत्र किं प्रमाणमिति चेद् ब्राह्मण्याधिगमसम्प्रदायेऽपि समानमतेत्,तद्व्यवहारबाधाऽभावदर्शनादसमानमिति चेन्न,इतरत्राप्युभयमावात्समानमेव, दृश्यते च वेदाध्ययनादिवत्तनमस्कारस्थापनादिर्बाधारहितो व्यवहार इति, अगृहीतगोगवयस्यापि गोरिव नोपमानगोचरा
लवल