________________
सर्वज्ञसिद्धौ
11 8 ||
शब्द
य प्रत्यक्ष गोचरातिक्रान्तत्वमस्योभयासिध्धेः अभ्युपगमविरोधात् विवादानुपपत्तेश्च अनुमानगोचरातिक्रान्तत्वं पुनरसिध्धमेव, सर्वे धर्मादयः कस्यचित् प्रत्यक्षाः, ज्ञेयत्वाद् घटवत्, विपक्षो न किश्चिदित्यनुमान सद्भावात् । अत्राह - नेदमनुमानं, तदाभासत्वात् इह प्रसिध्धाविषेशणत्वादप्रसिध्धविशेपण: पक्ष:, तथाहि--सर्वे धर्मादयः कस्यचित् प्रत्यक्षा इत्यत्रातीन्द्रियप्रत्यक्षेण प्रत्यक्षत्वं साधयितुमिष्टं न तत्कस्यचित् प्रसिध्धमिति हेतुरप्यनैकान्तिकः, अप्रत्यक्षस्याप्यभावस्य ज्ञेयत्वोपपत्तेः, दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्रत्यक्षत्वासिध्धेः, इतरोऽपि साधनाव्यावृत्तः नकिञ्चिदिति तुच्छेऽपि ज्ञेयत्वानिवृत्तेरिति, अत्रोच्यते, यत्तावदुक्तमप्रसिध्धविशेषणत्वादप्रसिध्धविशेषणः पक्षः [ इतरोऽपि साधनाव्यावृत्तविशेषण: ] इत्येतदयुक्तम्, अनुमानोच्छेदप्रसङ्गात्, सर्वत्राप्रसिध्धविशेषणपक्षाभासत्वापत्तेः एवं ह्यनित्यः इत्यादावपि वर्णाद्यात्मकव्याक्तिसमवाय्यनित्यत्वेनानित्यत्वं साधयितुमिष्टं न तत् कचित् प्रसिध्धमित्यपि वक्तुं शक्यत्वाद्, अनित्यत्वजातिपरिमहाददोष इति चेत् इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोष: १, इष्टासिध्धिरिति चेत् शब्दानित्यत्वादौ समान एत्र दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुपेयत्वादेर्मेयत्वेन त्वया ऽप्यङ्गीकृतत्वात् हेतुरप्यदुष्टः, अभावस्याप्रत्यक्षत्वासिध्धैर्वस्तुधर्मत्वात् अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतध्धर्मस्य चात्यन्तास तो ज्ञेयत्वायोगात् मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्त्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः । अपरस्त्वाह- सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः तेनार्थप्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तदप्रत्यक्षत्वप्रसङ्गात् तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेर्व्यभिचार इति एतदध्य सत्, तस्यार्थग्रहणारूपस्य स्वसंविदितत्वेनेोक्तदोषानुपपत्तरुभयप्रत्यक्षत्वात् अन्यथा ऽर्थ प्रत्यक्षत्वासिध्धेः, हृल्लेखशून्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात्, विकृतत्वे चार्थं पश्यतस्तद्विक्रियैव चिद्रूपाऽज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च । अपरस्त्वाह-हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैव गमको भवति, यथा धूमोऽप्रेः, न सद्भावमात्रात्
पूर्वपक्ष
खणुनम्
॥ ४ ॥
Scanned by CamScanner