________________
सर्वज्ञसिद्धौ
॥ ३ ॥
वतस्तथाप्रतीतेः: अतत्स्वभावत्वे तदनिमित्तत्वप्रसङ्गात्, नानैकान्तिकः, यथोदितविपक्षे ऽभावात्, नहि केवले प्राहाग्रहीतृव्यातिरिक्तनिमितोत्थापितप्रत्ययात्मकत्वमस्ति, तस्य तथाविधात्मार्थनिबन्धनत्वात्, न विरुध्धोऽपि विपक्ष एवाभावात्, इन्द्रियोपलब्धिनिमित्तमन्तरा व्याप्त्यान्तराद्यपेक्षारूपत्वस्य प्रतीतिबाधितत्वात्, विशेषविरुध्धस्य तत्त्वतोऽविरुष्धत्वात्, अन्यथा सर्वत्र भावादेव च हेतुव्यवहारोच्छेदप्रसंगात्, दृष्टान्तोऽपि न साध्यादिविकलः, धूमादग्नेर्ज्ञानस्याप्रत्यक्षत्व सिध्धेः, ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्त्वप्रतीतेश्च न साघना - व्यावृत्यादि, केवलादुभयस्यापि निवृत्तेः, आत्मनः साक्षादर्थपरिच्छेदात् सम्पूर्णार्थप्रतीतेश्व, आह- अधिकृत प्रत्यक्षेणापि साक्षादर्थपारीच्छत्तिः, न, अक्षैर्व्यवधानात्, तद्भावेन तदभावात्, ज्ञानोत्पत्तिस्तेभ्यः तत्परिच्छित्तिस्तु साक्षादेवेति चेत्, न, तद्व्यतिरेकेग तदसिध्धेः, अतत्स्वभावस्योत्पत्तौ पुनस्तत्स्वभावत्वविरोधात् न चानेन सम्पूर्णवस्त्ववगमो, नीलादेरपि वारतम्यव्यावृत्त्याद्यपरिच्छित्तेस्तथाऽननुभवात्, नरसिंहे सिंहज्ञानतुल्यत्वादिति । अर्थस्वभावत्वकार्यत्वाभावे इन्द्रियादीनां तेन प्रतिबन्धासिध्धेः तदवगमे तेषां लिङ्गत्वानुपपत्तिरिति चेत्, न, ज्ञाप्यज्ञापकभावेन प्रतिबन्धासिध्ध्यसिध्धेः न च सामग्रद्यपेक्षया ग्राह्यवत् ज्ञानजननस्वभावत्वमेषां सर्वथा तदभिन्नस्वभावत्वे ततस्तत्प्रतीतिप्रसंगात्, स्वभावभेदे च सिध्धमेषां ज्ञापकत्वमिति । आह-एवमप्यमषिां ज्ञापकधर्मातिक्रम:, अज्ञातज्ञापनात्, नहि धूमादाविव तज्ज्ञानादिपुरःसरमर्थज्ञानं, तथा सत्यभावात्, अक्षेपेणैवार्थप्रतीतेरिति, न, स्वभाववैचित्र्यतस्तद्भाषसिध्धेरज्ञातज्ञापक स्वभावत्वात्, ज्ञापकस्वभावत्वं चेह प्रयोजकं, अन्यथा कार्ये व्यतिरेकस्तत्कारणत्वांगीकरणेऽपि तत्त्वतस्तद्वदेतेषां हेतुधर्मातिक्रमः, बुद्ध्यादियुतत्वाभ्युपगमाच्च, न चैतदनुपपतिर्ज्ञेप्ते, तेषामेव त्ववेतनत्वेन ज्ञातृत्वायोगात्, किश्च परोक्षमात्रता चेह प्रतिपादयितुमिष्टा, माह्मग्रहीतृव्यतिरिक्तनिमित्तमात्रत्वनेत्यनुचितः सर्वसाघम्याभिनिवेशः, न चैवं केवलं, पाह्यग्रहीतृमात्रापोक्षितत्वात्, कर्मक्षयादेश्च क्षयोपशमादिश्च तुल्यत्वादित्यलं प्रसंगेन । नचा ऽशेषपदार्थमाह्मतीन्द्रि
पूर्वपक्ष
खणुनम्
॥ ३ ॥
Scanned by CamScanner