________________
सर्वज्ञसिद्धौ
॥२॥
नापि गम्यते ॥ १२ ॥ नार्थापत्त्या हि सर्वोऽर्थस्तं विनाऽप्युपपद्यते । प्रमाणपंचकावृत्तेस्तत्राभावस्य मानता ॥ १३ ॥ रागादिप्रक्षयाच्चास्य, सर्वज्ञत्वमिष्यते । तेषां चात्मस्वभावत्वात्, प्रत्क्षयो नोपपद्यते ॥ १४ ॥ अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वान्न वा कश्चित् कदाचन ॥ १५ ॥ किंच जात्यादियुक्तत्वाद्, वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो ?, यथोक्तं न्यायवादिना । १६ ॥ असाविति न सर्वझो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहुस्तं तमेतेन वारयेत् ॥१७॥ अवश्यं जातिनामभ्यां स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वादसर्वज्ञः प्रसज्यते || १८ || सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन पोद्यते । अपोदितविशेषं च, सामान्यं कावतिष्ठताम् ? ॥१९॥ न वक्तृत्वमदेहस्य, न चासौ कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ २० ॥ विवक्षया च वक्तृत्वं सा चेच्छाभावतो हि यत् । रागस्ततञ्च वक्तृत्वात्, न सर्वज्ञ इति स्थितम् ॥ २१ ॥ अत्रोच्यते—
यत्तावदुक्तं ‘प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वादसाध्वी सर्वज्ञकल्पने' ति, तदयुक्तं, कुत: १, यतो न सर्वपदार्थमाहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रान्तत्वेऽपि भावानां नावश्यमसत्तासिध्धिरतिप्रसङ्गात्, तद्गोचराणामपि सतामेवानुमानादिविषयतयेष्टत्वात्, अन्यथा ऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसंगात्, न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वः प्रमाणमस्ति तच्चेतसां परोक्षत्वात्, तदभ्युपगमे चावीन्द्रियार्थदर्शिनः सत्तासिध्धिः, तत्संशयानिवृत्तेश्व, नहि सर्वजनगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत्संशयानिवृत्तिः । न चेदं तत्रतः प्रत्यक्षम्, असाक्षादसम्पूर्णवस्तुपरिच्छेदात्मकत्वात्, प्रयोगश्च इन्द्रियमनोनिमितं विज्ञानमप्रत्यक्षं प्राह्मग्रहीतृव्यतिरिक्तनिमितोत्थापितप्रत्ययात्मकत्वात् धूमादग्निज्ञानवत्, विपक्षः केवलं, न प्रत्यक्षादिविरोधिनी प्रतिज्ञा, अस्य साक्षात्सम्पूर्णवस्तुपरिच्छेदायोगात्, अनीदृशस्य च प्रत्यक्षत्वानुपपत्तेः नासिद्धो हेतुः धर्मिधर्मत्वात्, यथोदितविज्ञानस्य हि प्राह्मग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं स्वभा
मङ्गलं
पूर्वपक्षय
॥२॥
Scanned by CamScanner