________________
Scanned by CamScanner
सर्वज्ञसिद्धौ
मङ्गलं
पूर्वपक्षश्च
श्रीमद्याकिनीमहत्तरासूनुहरिभद्राचार्यवर्यप्रणी
श्रीसर्वज्ञसिद्धिप्रकरणम्.
लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्ति-देवेन्द्रार्योऽप्रसादी परमगुणमहारत्नदोऽकिञ्चनेशः । तच्चातच्चेतिवक्ता नवित-13 थवचनो योगिनां भावगर्भ, ध्येयोऽनङ्गश्च सिध्धेर्जयति चिरगतो मार्गदेशी जिनेन्द्रः ॥ १॥ नास्त्येवाऽयं महामोहात् , केचिदेवं प्रचक्षते । कृपया तत्प्रबोधाय, ततः सन्न्याय उच्यते॥२॥ सर्वज्ञाप्रतिपत्तियन्मोहः सामान्यतोऽपि हि । नास्त्येवाभिनिवेशस्तु, महामोहः सतां मत:||३||* अस्माष दूरे कल्याणं, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चिदत एवोदितं बुधैः ॥ ४ ॥ महामोहाभिभूतानामित्यनर्थो महान् 181 यतः । अतस्तत्त्वविदां तेषु, कृपाऽवश्यं प्रवर्त्तते ॥ ५॥ श्रुत्वैतं चेह सन्न्यायं, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽ| प्युपपद्यते ॥ ६ ॥ तदभावेऽपि तदोषात् , सफलोऽयं परिश्रमः । कृपाभावत एवेह, तथोपायवृप्रत्तितः ॥ ७ ॥ श्रोतृणामप्रबोधेऽपि, यन्मु--
नीन्द्ररुदाहृतम् । आख्यातॄणां फलं धर्मदेशनायां विधानतः ॥ ८॥ अलमत्र प्रसंगेन, प्रकृतं प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्न्यायस्तत्रातः किं| चिदुच्यते ॥९॥-प्रत्यक्षादिप्रमाण (णानां ) गोचरातिक्रान्तभावतः । असाध्वी किल सर्वज्ञकल्पनाऽतिप्रसंगतः ॥१०॥ प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिंगमप्यविनाभावि, तेन किंचिन्न दृश्यते ॥११॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमाने