________________
Scanned by CamScanner
सर्वज्ञसिदौ ।
'रागादिप्रक्षयादि' त्यादिना रागादीनामात्मस्वभावत्वात् प्रक्षयानुपपत्तिरिति, एतदप्ययुक्तं, पद्मरागकातरखरमलस्य तत्स्वभावत्वेऽपि भारमृत्युटपाकादेः प्रक्षयोपपत्तेर्विशुद्धिकल्याणतादर्शनात् , तदतत्स्वभावत्वे सर्वस्य पद्मरागादेविशुद्ध्यादिप्रसङ्गः, अमलस्वभावत्वात् , नवा कस्यचित् कदाचिद्, अमलस्वभावत्वेऽपि पूर्ववदनुपपत्तः, न पद्मरागादेर्मलं सांसिद्धिक, भिन्नवस्तुत्वेन तदुपरंजकत्वादिति चेत् ,आत्मनोऽपि रागादिषु तुल्य: परिहारः, तथाहि-रागादिवेदनीयकर्माणवोऽध्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरंजका इति तत्त्वनीतिः, निसर्गशुद्धस्य कथं तदुपरंजकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत् , पद्मरागादिष्वपि समानमेतत् , न ते निसर्गशुद्धा मलेनोपरज्यन्ते, किन्तु तद्भस्ता एवोपजायन्त इति चेत् आत्मन्यपि रागाद्यपेक्षया तुल्यमेतत्, अनादित्वात् स नोत्पद्यते इति चेत् अनादिरेव तग्रस्त इति कोऽत्र दोषः!, कृतककर्मभेदत्वात्तेषामनादित्वविरोध इति चेत्, न, कृतकत्वेऽप्यनुभूतवर्त्तमानभावातीतकालवत् प्रवाहतोऽनादित्वसिद्धेः, अन्यथा प्राकालाभावतोऽत्रीजत्वेन पश्चादपि तदभावापत्तिः, न बसत् सद्भवति,अतिप्रसंगात् ,न चाननुभूतवर्तमानस्यातीतता,वर्तमानकल्पं च कृतकत्वमिति, आह-कुतः पुनरमीयां प्रक्षय ? इति, उच्यते, प्रतिपक्षभावनातः, सा चानेकान्तभावना, तत्प्रतिपक्षादुपेक्षासम्भवसामर्थ्यदर्शनात्, इह यतो यद्भवति तत्प्रतिपक्षान तद्भवितुमर्हतीति न्यायः, गुणदोषकान्तप्रहाच्च रागद्वेषौ, अतस्तत्प्रतिपक्षभूतादनेकान्तत एवोपेक्षासम्भवो नान्यथा, तथाहि-उभयात्मकैकत्वोपमहादुपेक्षैव दृश्यते स्त्रीशरीरादिषु तद्विदा, तस्यां गुणा दोषाश्च, ततः किमनयेति व्यवहारदर्शनात्, सा चोपेक्षा संवरवतां सस्वानां, निमिचताऽभावेन अभावादागंतुकमलस्य, तच्चोपेक्षा परिणामादिहेतुतः प्रक्षयात् प्राक्तनस्य, समासादयतां ज्ञानवृद्धिं सूक्ष्मक्षिकयापि वस्तुनि | पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टोदासीन्यरूपा जायत इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तं च- " औदासीन्य तु सर्वत्र, त्याम्योपादानहानितः । वासीचन्दनकल्पानां, वैराग्यं नाम कथ्यते ॥१॥” इति, प्रपत्रितमेतद्भावनासिद्धाविति नेह प्रयासः । यच्चोक्तं |
SECRUICK
ॐ