________________
सर्वज्ञसिद्धौ
॥ १० ॥
तदभ्युपगमे भावत्वापत्तिः, किंच-अभावाद् भवतीति कारणप्रतिषेधात्तज्ज्ञानस्य निर्हेतुकत्वतः सदाभावादिप्रसंगः, अथात्मा ज्ञानविनिर्मुक्तः, ततोऽपि तदभावनिश्रयाभाव:, ज्ञानशून्यत्वात्, ज्ञानस्य च निश्चयो धर्म्म इति, अथ ' चैतन्यं पुरुषस्य स्वरूप' मिति वचनात् तदेव निश्चय इति, न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्व दिति, अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभावनिश्वया भावः, तदविषयसंसर्गेण तद्द्ब्रहणासिद्धेः, न चान्यत्वाभाववत् निश्चयो, न्यायविदः स्वभाववैचित्र्यतस्तत्सत्त्वाशङ्काऽनिवृत्तेः, तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसमिति, अन्यस्त्वाह- अभावो प्रभावज्ञानमेव, प्रमेयं त्वस्य तुच्छं, न चायं कुलालादिवद् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतु:, अपितु विज्ञेयतामात्रात्, न चास्येय मध्ययुक्ता, प्रमेयत्वानुपपत्तेः न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेयस्य तंदभ्युपगमात् न चानेनाविकृतोऽभावो न गम्यते, षष्ठास्तिकायवत् नास्ति सर्वज्ञ इत्यभावप्रतीतिरिति एतदप्यसत्, अधिकृतज्ञानस्यापि तत उत्पस्यसिद्धेः, संयोगादिप्रतिषेध संख्येतर कायापेक्षमनोविज्ञानात्मकत्वात्, अस्य चापरिमाणत्वात्, परिणीतितः इष्टविषयानुत्पश्या तत्परिच्छेदायोगात्, इतश्चाप्रमाणत्वं नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न चेदमशंव्यापारजं, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात्, अक्षस्य च विषयान्तरेऽप्यप्रवृत्तेः न च वस्तुविशेषणीभूतत्वेनास्य प्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः सम्बन्धाभावात् तादात्म्यतदुत्पस्यनुपपत्तेः, विशेषणविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगांत्, वस्तुधर्मस्य च एकान्तंतुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, न हि पररूपाभावः | स्वरूपभाव पृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुच्छतैव, तद्भावस्येतरत्राभावात्, एकान्तंतुच्छभावस्य वातुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इंति, प्रसिद्धोपादान एवाप्रमाणभूत एंव विकल्प:, न साक्षात्तुच्छगोचरस्तदप्रतिभासनेन विधिनिषेधाविषयत्वात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयं । यबोकं
पूर्वपक्ष
खंडनं
॥ १० ॥
Scanned by CamScanner