________________
Scanned by CamScanner
पूर्वपक्ष
खंडनं
॥९॥
FREE
तत्प्रकाशनप्रसङ्गात् , अष्टदोषात् तत् (तथा हि) प्रकाशनमिति चेत्, न, इतरत्राप्यविनम्भप्रसङ्गात् , तदेवारष्टदोषात् नेतरदिति निर्वाच-18 कप्रमाणाभावात्, अतीन्द्रियार्थत्वाद् तत्साक्षात्कारिणश्चानभ्युपगमात् , तद्व्यतिरेकेण च तद्विशेषावगमोपायाभावादिति समामीयतामतीन्द्रियार्थसाक्षात्कारी, तदभावे सतीष्टासिद्धिरिति, तनावेऽप्यतादृशस्यातीन्द्रियार्थत्वात् तद्विवक्षावगमोपायाभाव इति चेत्, न, शब्दस्य |
प्रयोगकुशलप्रयुक्तस्य कचित् तदवगमनस्वभावत्वात् , अर्थमात्रप्रतिपत्त्या प्रतारके तथाथात्म्यानवगम इति चेत्, न, भगवतो वीतरागत्वेन | #प्रतारकत्वानुपपत्तेः, प्रकृष्टौदासीन्यभावेन वीतरागस्य देशनानुवृत्तिरयुक्तेति चेत् , न, औदासीन्येनैव प्रवृत्तेः, तथाहि-न भगवतस्तियनरामरेषु
| देशनाया विशेषः, यथाबोधं प्रवृत्तेः, तथाप्रवृत्तिरप्येकान्तौदासीन्यबाघिनीति चेत्, न, तस्या अन्यनिमित्तत्वात् , प्रवचनवात्सल्यादीनिमिदत्तप्रागुपात्ततीर्थकरनामकर्मनिर्जरणहेतुत्वात , उक्तं च- "तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणादीहि" मित्यादि, तत्कर्मभावे
| तत्क्षयायोपायप्रवृत्तेः कृतकृत्यत्वानुपपत्तिरिति चेत् , न, अनभ्युपगमात् , न हि भवस्थस्य भगवतः क्षीणमोहस्याप्येकान्तेन कृतकृत्यत्वमिष्यते, Bा भवोपप्राहिकर्मयुक्तत्वात् , अन्यनिमित्तापि प्रकृष्टौदासीन्यबाधिनी प्रवृत्तिस्तदेवेति चेत्, न, स्थितिप्रवृत्या व्यभिचारात्, साऽप्रवृत्तस्यापि
स्वरसत एवेति चेत् तथाविधकर्मयुक्तस्य देशनाप्रवृत्तिरप्येवंकल्पेत्यदोषः, अतीर्थकरवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत्, न, अनभ्युपगमात् , | न हि सामान्यकेवलिनस्तथा देशनायां प्रवर्तन्त इत्यलं प्रसङ्गेन ।
____ यथाक्तं ' प्रमाणपत्रकावृत्तेस्तत्राभावस्व मानते ' त्येतदप्ययुक्तं, विकल्पानुपपत्तेः, तथाहि-असावभावः किं प्रमाणपत्रकविनिवृत्तिमात्र 8 अभाव एवाहोश्चिदात्मा शानविनिमुक्तः उताहो उपलब्भ्यन्तरात्मक इति, न तावत्तुच्छ एव, तस्य निरुपाख्यत्वेन तम्मावपरिच्छेदकत्वानुपपत्तेः, ज्ञानस्य हि परिच्छित्तिर्धों नाभावस्य, न.नाभावपरिकछेदकहानजनकत्वमस्य अभावत्वविरोधात् , तज्जननशक्त्यभावें तदनुत्पत्तेरातिप्रसंगात,