________________
Scanned by CamScanner
कर्णिका
॥ २८ ॥
H-RIPATELEBDIODOHOREEP
कार्पण्यात्किंचिदपि तस्मै मुनये न समर्पितं. एवं स मुनिदानदाता भ्राता ततो मृत्वा दानप्रभावात्त्वं ।। शातवाहनाख्यो राजा जातः. स कृपणभ्रातापि ततो मृत्वायं मत्स्यस्तस्यामेव नद्यां समुत्पन्नः. संप्रति च | त्वां दृष्ट्वा तस्य मत्स्यस्य जातिस्मरणज्ञानं समुत्पन्नं. अतस्तव प्रतिबोधाय स मत्स्यो जहास. एवं मुनिप्रोक्तं वृत्तांतं निशम्य स शातवाहनो राजा भृशं प्रमोदं प्राप्तो धर्मध्यानपरो जातः ॥ इति सत्पात्रदाने वाहननृपकथा समाप्ता. ॥ ९॥
पृथ्वीपीठाभिधे नगरे कनकभ्रमाख्यो राजा राज्यं करोतिस्म. अथैकदा तस्य सभामध्ये नटः समायातः, तेन तत्र सभायामतीवमनोहरं नाटकं कृतं, राजादयः सर्वेऽपि सभाजना सहर्षा जाताः. राज्ञापि तस्मै भूरिद्रव्यदानं दत्तं, ततो राज्ञा तं चंद्रोद्योतंप्रति कथितं, भो नट ! त्वं नृत्यकलायामतीवकुशलोऽसि. अथ चंद्रपुराभिधे नगरे चंद्रसेनाख्यो राजा राज्यं करोति, परं स परमो जैनश्रमणोपासकोऽस्ति. तस्य नृपस्य चित्तं नाटकेन रंजयित्वा यदि त्वं तस्य पार्वादानं लभेथास्तदा तव कलां समीचीनामहं मन्ये. तदा तेन चंद्रोद्योतेन तत्र सभामध्ये साहंकारं वचनं कथयित्वा तथाकर्तुं प्रतिज्ञा कृता. ततोऽसौ ||
--TIMRORTEENPATRIODramDEJETHI
lal॥२८॥