________________
Scanned by CamScanner
॥ २९॥
धर्मोपदेश || शीघ्रं तां चंद्रपुरींप्रति चचाल. क्रमेण पंथानमुल्लंघ्य स तत्र चंद्रपुर्यां प्राप्तः. अथैकदा प्रस्तावं लब्ध्वा स | कर्णिका
राजसभायां गत्वा मनोहरं नाटकं चकार, परं स चंद्रसेनराजा तस्य नृत्येन मनागपि नारज्यत; सर्वे सभालोकाश्च रंजिताः संतस्तस्य नटस्य दानं दातं वांछंति, परं राजा न वांछति. तदा तेन नटेन नानाविध-IA वेषेण नवनवरागाद्यालापेन सर्वजनानंदकारकं नाटकं कृतं, परं राजा तन्नत्यं मनागपि स्वमनसि नाभा| वयत्. तदा स नटो निजमनस्यतीव खेदं प्राप्तः, विचारयामास चाधुनाहं किं करोमि? ततोऽसौ मुनिवेषं । गृहीत्वा सभायामागत्येमां गाथा पपाठ-संझरागजलबुब्बुओवमे । जीविए य जलबिंदुचंचले । जुवणे नइ-19 वेगसंनिहे । पावजीव किमु हा न बुज्झसि ॥ १ ॥ एवंविधां वैराग्यांचितां तां गाथां श्रुत्वा राज्ञा तस्य । सन्मुखं विलोकितं, तुष्टीभूय च तं नटंप्रति प्रोक्तं, भो चंद्रोद्योत ! अनया तव वैराग्योपेतगाथयाहं तुष्टोऽस्मि, in मम चतुःषष्टिघोटकशालाः संति, तन्मध्ये प्रत्येकघोटकशालायां चतुःषष्टिमिता घोटकाः संति, ते सर्वेऽपि | घोटका मया तुभ्यं दत्ताः, अतस्त्वं तान् गृहाण ? तदा नटो जल्पति “आरंभे नत्थि दया” तदा पुनर्नु ॥२९॥ X| पेण भणितं, भो चंद्रोद्योत! मदीयांतःपुरमध्ये प्रत्येकं सपादकोटिमूल्याभरणभूषिता बढ्यो योषितः |
Degrade15PARDPREDEEMENT