________________
૨૫૮
१७/२ मनोवाक्कायजे पापे, कृतानुमतिकारितैः ।
मिथ्या मे दुष्कृतं भूयाद्, अपुनः क्रिययाऽन्वितम् ।।८८ ।। १७/३ यत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ।।८९।। १७/४ सर्वेषामर्हदादीनां यो योऽर्हत्त्वादिको गुणः ।
अनुमोदयामि तं तं सर्व तेषां महात्मनाम् ।।१०।। १७/५ त्वां त्वत्फलभूतान् सिद्धान् त्वच्छासनरतान् मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ।। ९९ ।। १७/६ क्षमयामि सर्वान् सत्त्वान् सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ।। ९२ ।।
१७/७ एकोऽहं नास्ति मे कश्चिद्, न चाहमपि कस्यचित् । त्वदङ्घ्रिशरणस्वस्य मम दैन्यं न किञ्चन ।। ९३ ।। १७/८ यावत्राप्नोमि पदवी परां त्वदनुभावजाम् ।
तावन्मयि शरण्यत्वं मा मुञ्च शरणं श्रिते । । ९४ ।। तव चेतसि वर्तेऽहं इति वार्त्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत् त्वम्, अलमन्येन केनचित् ।।१५।। १९ / ४ वीतराग ! सपर्यायाः, तवाज्ञापालनं वरम् ।
आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च । । ९६ ।। आकालमियमाज्ञा ते, हेयोपादेयगोचरा ।
आश्रवः सर्वथा हेयः, उपादेयश्च संवरः ।। ९७ ।। आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम् । इतीयमार्हती मुष्टिः, अन्यदस्याः प्रपञ्चनम् ।। ९८ ।।
१९/१
१९/५
વીતરાગસ્તોત્ર સૂક્ત - રત્ન - મંજૂષા
१९/६
,