________________
વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા
૫૯
१९/७ इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः ।
__ निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे ।।९९।। १९/८
हित्वा प्रसादनादैन्यं, एकयैव त्वदाज्ञया ।
सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्जरात् ।।१०।। २०/१ पादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव ।
चिरं निवसतां पुण्य-परमाणुकणोपमम् ।।१०१।। २०/२ मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः ।
अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् ।।१०२।। २०/३ त्वत्पुरो लुठनैर्भूयाद्, मद्भालस्य तपस्विनः ।
कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः ।।१०३।। २०/४ मम त्वद्दर्शनोद्भूताः, चिरं रोमाञ्चकण्टकाः ।
तुदन्तां चिरकालोत्थां, असद्दर्शनवासनाम् ।।१०४ ।। २०/५ त्वद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव ।
मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ।।१०५।। २०/६ त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ ।
त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ।।१०६ ।। २०/७ कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति ।
ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया ? ।।१०७।। २०/८ तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः ।
ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे ।।१०८।।