SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા ૨૫૭ १५/९ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ।।७७।। १६/१ त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः । पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ।।७८।। १६/२ इतश्चानादिसंस्कार-मूर्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो, हताशः करवाणि किम् ? ।।७९।। १६/३ रागाहिगरलाघ्रातो-ऽकार्षं यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि, धिङ्मे प्रच्छन्नपापताम् ! ।।८।। १६/४ क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ।।८१।। प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ।।८२।। १६/५ त्वय्यपि त्रातरि त्रातर् !, यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् ।।८३।। १६/७ भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवाङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय ।।८४ ।। १६/८ भवत्प्रसादेनैवाहं, इयती प्रापितो भुवम् । औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम् ।।८५।। १६/९ ज्ञाता तात ! त्वमेवैकः, त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रम्, एधि यत्कृत्यकर्मठ ! ।।८६।। १७/१ स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ।।८७।। १६/५
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy