________________
વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા
૨૫૭
१५/९ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः ।
जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ।।७७।। १६/१ त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः ।
पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ।।७८।। १६/२ इतश्चानादिसंस्कार-मूर्छितो मूर्च्छयत्यलम् ।
रागोरगविषावेगो, हताशः करवाणि किम् ? ।।७९।। १६/३ रागाहिगरलाघ्रातो-ऽकार्षं यत्कर्म वैशसम् ।
तद्वक्तुमप्यशक्तोऽस्मि, धिङ्मे प्रच्छन्नपापताम् ! ।।८।। १६/४ क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ।।८१।। प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः ।
दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ।।८२।। १६/५ त्वय्यपि त्रातरि त्रातर् !, यन्मोहादिमलिम्लुचैः ।
रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् ।।८३।। १६/७ भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः ।
तत्तवाङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय ।।८४ ।। १६/८ भवत्प्रसादेनैवाहं, इयती प्रापितो भुवम् ।
औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम् ।।८५।। १६/९ ज्ञाता तात ! त्वमेवैकः, त्वत्तो नान्यः कृपापरः ।
नान्यो मत्तः कृपापात्रम्, एधि यत्कृत्यकर्मठ ! ।।८६।। १७/१ स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् ।
नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ।।८७।।
१६/५