________________
૫૬
વીતરાગસ્તોત્ર સૂક્ત- રત્ન - મંજૂષા ११/८ महीयसामपि महान्, महनीयो महात्मनाम् ।
अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ।।६६।। १२/२ दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् ।
मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ।।६७।। १२/४ यदा मरुन्नरेन्द्र श्रीः, त्वया नाथोपभुज्यते ।
यत्र तत्र रतिर्नाम, विरक्तत्वं तदाऽपि ते ।।६८।। १२/६ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे ।
तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? ।।६९।। १२/७ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे ।
ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ।।७०।। १२/८ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे ।
नमो वैराग्यनिघ्नाय, तायिने परमात्मने ।।७१।। १३/१ अनाहूतसहायस्त्वं, त्वमकारणवत्सलः ।
अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धबान्धवः ।।७२।। १४/५
तथा परे न रज्यन्त, उपकारपरे परे ।
यथाऽपकारिणि भवान्, अहो ! सर्वमलौकिकम् ।।७३।। १५/३ च्युतश्चिन्तामणिः पाणेः, तेषां लब्धा सुधा मुधा ।
यस्त्वच्छासनसर्वस्वं, अज्ञानात्मसात्कृतम् ।।७४।। १५/५ त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः ।
विषेण तुल्यं पीयूषं, तेषां हन्त ! हतात्मनाम् ।।७५ ।। १५/६ अनेडमूका भूयासुः, ते येषां त्वयि मत्सरः ।
शुभोदर्काय वैकल्यम्, अपि पापेषु कर्मसु ।।७६।।