________________
વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા
ર૫૫
९/२ सुषमातो दुःषमायां, कृपा फलवती तव ।
मेरुतो मरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः ।।५५।। ९/३ श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् ।
त्वच्छासनस्य साम्राज्यं, एकच्छत्रं कलावपि ।।५६।। निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजःकणः ।।५७।। युगान्तरेषु भ्रान्तोऽस्मि, त्वदर्शनविनाकृतः ।
नमोऽस्तु कलये यत्र, त्वदर्शनमजायत ।।५८।। १०/२ निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः ।
स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुणान् ।।५९।। १०/३ संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि ।
अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? ।।६०।। १०/६ द्वयं विरुद्धं भगवन् !, तव नान्यस्य कस्यचित् ।
निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्त्तिता ।।६१।। १०/७ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु ।
पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ।।६२।। १०/८ शमोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता ।
सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः ।।६३।। ११/१ निघ्नन् परीषहचमू, उपसर्गान् प्रतिक्षिपन् ।
प्राप्तोऽसि शमसौहित्यं, महतां काऽपि वैदुषी ।।६४।। ११/६ रागादिषु नृशंसेन, सर्वात्मसु कृपालुना ।
भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया ।।६५।।