________________
૨૫૪
વીતરણસ્તોત્ર સૂક્ત- રત્ન- મંજૂષા
५/१
गायन्निवालिविरुतैः, नृत्यन्निव चलैर्दलैः । त्वद्गुणैरिव रक्तोऽसौ, मोदतेऽशोकपादपः ।।४४।। आयोजनं सुमनसो-ऽधस्तानिक्षिप्तबन्धनाः । जानुदघ्नीः सुमनसो, देशना किरन्ति ते ।।४५।। मालवकैशिकीमुख्य-ग्रामरागपवित्रितः ।। तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि ।।४६।। तवेन्दुधामधवला, चकास्ति चमरावली । हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ।।४७।। मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति, मृगेन्द्रमिव सेवितुम् ।।४८।। भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामिव दृशां, ददासि परमां मुदम् ।।४९।। दुन्दुभिर्विश्वविश्वेश !, पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति ।।५।। तवोर्ध्वमूर्ध्वं पुण्यद्धि-क्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवन-प्रभुत्वप्रौढिशंसिनी ।।५१।। त्वां प्रपद्यामहे नाथ !, त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? ।।५२।। कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ।।५३।। यत्राल्पेनापि कालेन, त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः ।।५४।।
१/८
६/१०
९/१